१.४. तयोरेवादृष्टविशेषादिसम्पदा तदुन्मज्जनजन्मा मनःप्रमोदातिशयो विशेषवान् करुणानन्तरः सम्भोगः, इति।
१. कामशृङ्गारः द्र. पृ. १०५२।
प्रथमानुरागादीनां विप्रलम्भानां तदनन्तराणां च सम्भोगानां पृथक्पृथक् चतुर्णाँ समवाये पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः, इति।
वैचिञ्ये रागवर्धनत्वे वाऽपि विप्रलम्भः सम्भोगात् सर्वतः सर्वो बलीयान् इति।
एवं नित्यान् नैमित्तिकः, सामान्याद् विशेषः, प्रकाशात् प्रच्छन्नः, कृत्रिमादकृत्रिमः,रावर्धनत्वे;
वैचिञ्ये तु अकृत्रिमात् कृत्रिमः, प्रच्छन्नात् प्रकाशः, विशेषात् सामान्यः, नित्यान्नैमित्तिको बलीयान् इति (द्र. पृ. ११६१)।
नित्यसामान्यप्रकाशकृत्रिमाणां पूर्वः रागवर्धनः, परः परो विचित्रः इति।
नैमित्तिकविशेषप्रच्छन्नाकृत्रिमाणां पूर्वः पूर्वो विचित्रः, परः परो रागवर्धनः इति।
एवं मृदोश्चाटुः, समीचोऽतिशायी, वासन्ताद् वार्षिकः, प्रासादिकान्मदजः, समयजन्मनः सम्बन्धजन्मा, (सामान्याद्) गुणगोचरः, साधारणादसाधारणः,सांसर्गिका— न्नैसर्गिकः, प्रौढाविषयाद् नवोढाविषयः, प्रोषितपतिकाविषयाद् विरहोत्कण्ठिताविषयः, स्वाङ्गनाविषयात् पराङ्गनाविषयः, सुलभाद् दुर्लभः, आहार्याद् विस्त्रम्भजः, नित्यानुकारिणो नैमित्तिकानुकारी, प्रकाशानुकारिणः, प्रच्छन्नानुतारी बलीयान् इत्यादिप्रभेदेषु क्रमेण रागवर्धनत्वेऽपि, अतिक्रमेण तु वैचिञ्ये इत्यत्रापि यथायथं योजनीयामिति।
प्राक्प्रपञ्चितानुरागानुरूपाश्च प्रथमानुरागमानप्रवासकरुणविप्रलम्भाः। तदानन्तर्यानुकारिणश्च तदनन्तराः सम्भोगाः, भावजन्मानुबन्धप्रकर्षानुरूपास्तदवस्थाः समृद्धयः, नायकप्रकृत्यनुरूपास्तदनुभावसम्पदः१, उत्तमत्वमुग्धत्वाद्यनुरूपाणि तेषां रामणीयकादीनि२, बलाबलानुरूपाः सम्पर्कानुगमभक्तयः३, संविधानकानुरूपास्तेषां संविदः४, सन्निकर्षविप्रकर्षप्रकर्षापकर्षवत्यो व्यतिकरप्रक्लृप्तयः५ इति। तत्र सम्भोगः—