॥ त्रयोविंशः प्रकाशः॥ २३॥
भोजो राजा भोज एकोऽस्ति राजा साहित्याख्ये शास्त्रलोकेऽतिदीर्घे।
सूक्ष्मात् सूक्ष्मं तन्तुजातं य एष विश्लिष्याद्धोदाहरत्यञ्जसैव॥
भेदप्रभेदगणनाऽऽकलने नदीष्णा भोजा भवन्तु, वयमत्र तु भोगिनः स्मः।
भोगश्च भोग्यगणना च परस्परं किं दाम्पत्यसूत्रमुपगच्छति निर्विकारम्॥