कामश्रृङ्गारमात्रस्य श्रृङ्गवत्वाद् यथार्थता।
धर्मार्थमोक्षश्रृङ्गारस्त्वश्रृङ्गा हि विषाणिनः॥
सनातनकवेरेषा लोकद्रष्टुः स्थिरा मतिः।
कामश्रृङ्गारमात्रे हि भोजराजमतिः शुकी॥
१. i. सम्प्रत्ययानुभवनूतनया सनाभिरात्माभिलाषसुखवि॰ जोशेरः। ii. सम्प्रत्ययानुभवनूतनया(?)सनाभिरात्माभिलाषसुखवि॰ राघवः HOS.। iii. मूलं त्वस्माभिरुपकल्पितम्।