(ददातिकर्माप्यम्) सम्यक् प्रदीयतेऽस्मै इत्यन्वर्थसंज्ञाया विषयो ददातिकर्माप्यम्। यथा— दीयतेऽस्मै दानीयो ब्राह्मणः, देवा देयासुरस्मै देवदायो डिम्भ इति।
(कर्ममात्राप्यम्) 'कर्मणा यमभिप्रैति संप्रदानम्' (१.४.३२) इति पारिभाषिक— संज्ञामात्रविषयः कर्ममात्राप्यम्। यथा—दाश्यतेऽस्मै देयमिति दाशः कैवर्त्तः, गां हन्ति तस्मै आगतायेति गोघ्नोऽतिथिः इति।
(क्रियाप्यम्) कर्मशब्देन क्रियाया अप्युपादानात् क्रियया यदाप्यते तत् क्रियाप्यम्।
यथा— श्लाघन्तेऽस्मै जना इति श्लाघ्यो राजा, स्पृहयन्त्यस्मै लोकाः स्पृहणीयो विभव इति।
(५) अपादानम् — निर्दिष्टविषयम्, उपात्तविषयम् अपेक्षितक्रियं च। तत्र—
(निर्दिष्टविषयम्) 'ध्रुवमपायेऽपादानम्' (१.४.२४) इति निर्दिष्टविषयम्। यथा— प्रपतनो गिरिः, प्रस्रवणः शैलः इति।
(उपात्तविषयम्) भीत्रार्था(१.४.२५)दियोगोक्तमुपात्तविषयम्। यथा— 'भयानको द्विषाम्, प्रभवः संपदाम्' इति।
(अपेक्षितक्रियम्) अवधिमात्रार्थमपेक्षितक्रियम्। यथा— अवधिः पर्वतः, मर्यादा समुद्रः, इति।
(६) अधिकरणं — वैषयिकम्, औपश्लेषिकम्, नैमित्तिकं च। तेषु —
(वैषयिकम्) विविधमनेकप्रकारं जातिगुणक्रियाद्रव्यादिभिः सिनोतीति। विषयो देशकालादिः, विषय एव वैषयिकम्। यथा— निपिबन्त्यस्मिन् गवादय इति निपानं जलाशयः, राजानो धीयन्तेऽस्यां राजधानीनगरम् इति।