(३. उपाधिमत्) बाह्यम्, आभ्यन्तरम्, उभयं वा शास्त्रोपात्तं विशेषणमुपाधिः। स भावानां यथा— भवतः शायिका, उपसरो गवाम्, समजः पशूनामिति। कारकाणां यथा— तुन्दपरिमृजोऽलसः, स्तम्बेरमो हस्ती, दृतिहरिः पशुः इति।
(४. रूढिः) गुणवचनत्वे द्रव्यवचनत्वं रूढिः। सा भावानां यथा— मृगया, वासना, परिव्रज्येति। कारकाणां याथ— कुम्भकारः, पङ्कजम्, अमावास्येति।
(५. संबन्धः) नियोगतः प्रतियोग्यपेक्षः संबन्धः। स भावानां यथा— भुक्त्वा व्रजति, भोक्तुमिच्छति, अप्राप्य नदीं पर्वत इति। कारकाणां यथा— चङ्क्रम्यमाणोऽधीते, अधीयानो वसति, गोदायो व्रजति।
(६. अनुबन्धः) अनुषङ्गोऽनुबन्धः। स भावानां यथा— साराविणं वर्त्तते, रैपोषं पुष्यति, चकासाञ्चकार इति। कारकाणां यथा— अग्निष्टोमयाजी, उष्ट्रकोशी, शतदायी—ति।
(कृतः) अथैतदभिधाने त्रिप्रकाराः कृतो भवन्ति — १. भाववचनाः, २. कारकवचनाः, ३. भावकारकवचनाश्च। तेषु —
(१) अथुजादयः, ण्वुलादयः, णजादयः, तुमुनादयः, सयादयः, णमुलादयश्च भाववचनाः,
(२) ण्वुलादयः, अणादयः, उणादयः, क्विनादयः, शत्रादयः, तृनादयश्च कारकवचनाः
(३) तव्यादयः, तवायादयः, क्तादयः, खलादयः, ल्युडादयः, घञादयश्च भावकारकवचनाः। तत्र—
भाववचनेष्वनुपाधौ सिद्धभावे अथुजादयः। यथा— नन्दथुः, यज्ञः, स्वप्नः, क्रिया, कण्डूया, व्रज्या इति।