रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 57 verses
Verse 41
मर्मरैरगुरुधूपगन्धिभिर्व्यक्तहेमरशनैस्तमेकतः । जह्नुराग्रथनमोक्षलोलुपं हैमनैर्निवसनैः सुमध्यमाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): मर्मरैरिति॥ मर्मरैः संस्कारविशेषाच्छब्दायमानैः। `अथ मर्मरः। स्वनिते वस्त्रपर्णानाम्` इत्यमरः। अगुरुधूपगन्धिभिर्व्यक्तहेमरशनैर्लोल्याल्लक्ष्यमाणकनकमेखलागुणैर्हैमनैर्हेमन्ते भवैः। `सर्वत्राण्च तलोपश्च` (पा.4।3।22) इति `हिमन्त` शब्दादण्प्रत्ययस्तलोपश्च। निवसनैरंशुकैः सुमध्यमाः स्त्रियः एकतो नितम्बैकदेश आग्रथनमोक्षयोर्नीवीबन्ध-विस्रंसनयोर्लोलुपमासक्तं तं जह्नुराचकृषुः ॥

Verse 42
अर्पितस्तिमितदीपदृष्टयो गर्भवेश्मसु निवातकुक्षिषु । तस्य सर्वसुरतान्तरक्षमाः साक्षितां शिशिररात्रयो ययुः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अर्पितेति॥ निपाता वातरहिताः कुक्षयोऽभ्यन्तराणि येषां तेषु गर्भवेश्मसु गृहान्तर्गृहेष्वर्पिता दत्ताः स्मिमिता निवातत्वान्निश्चला दीपा एव दृष्टयो याभिस्ताः। अत्रानिमिषदृष्टित्वं च गम्यते। सर्वसुरतान्तरक्षमास्तापस्वेदापनोदनत्वाद्दीर्घकालत्वाञ्च सर्वेषां सुरतान्तराणां सुरतभेदानां क्षमाः क्रियार्हाः शिशिररात्रयस्तस्याग्निवर्णस्य साक्षितां ययुः। विविक्तकालदेशत्वाद्यथेच्छं विजहारेत्यर्थः ॥

Verse 43
दक्षिणेन पवनेन संभृतं प्रेक्ष्य चूतकुसुमं सपल्लवम् ष। अन्वनैषुरवधूतविग्रहास्तं दुरुत्सहवियोगमङ्गनाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दक्षिणेनेति॥ अङ्गना दक्षिणेन पवनेन मलयानिलेन संभृतं जनितं सपल्लवं चूतकुसुमं प्रेक्ष्य। अवधूतविग्रहास्त्यक्तविरोधाः सत्यो दुरुत्सहवियोगं दुःसहविरहं तमन्वनैषुः। तद्विरहमसहमानाः स्वयमेवानुनीतवत्य इत्यर्थः ॥

Verse 44
ताः स्वमङ्कमधिरोप्य दोलया प्रेङ्खयन्परिजनापविद्धया । मुक्तरज्जु निबिडं भयच्छलात्कण्ठबन्धनमवाप बाहुभिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ ता अङ्गनाः स्वमङ्कं स्वकीयमुत्सङ्गमधिरोप्य परिजनेनापविद्धया संप्रेषितया दोलया मुक्तरज्जु त्यक्तदोलासूत्रं यथा तथा प्रेङ्खयंश्चालयन् भयाच्छलात्पतनभयमिषाद्वाहुभिरङ्गनाभुजैर्निबिडं कण्ठबन्धनमवाप प्राप। स्वयंग्रहाश्लेषशुखमन्वभूदित्यर्थः ॥

Verse 45
तं पयोधरनिषिक्तचन्दनैर्मौक्तिकग्रथितचारुभूषणैः । ग्रीष्मवेषविधिभिः सिषेविरे श्रोणिलम्बिमणिमेखलैः प्रियाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रियाः पयोधऱेषु स्तनेषु निषिक्तमुक्षितं चन्दनं येषु तैः। मौक्तिकैर्ग्रथितानि प्रोतानि चारुभूषणानि येषु तैः। मुक्ताप्रायाभरणैरित्यर्थः। श्रोणिलम्बिन्यो मणिमेखला मरकतादिमणियुक्तकटिसूत्राणि येषु तादृशैर्ग्रीष्मवेषविधइनिरुष्णकालोचितनेपथ्यविधानैः। शीतलोपायैरित्यर्थः । तमग्निवर्णं सिषेविरे ॥

Verse 46
यत्स लग्नसहकारमासवं रक्तपाटलसमागमं पपौ । तेन तस्य मधुनिर्गमात्कृशश्चित्तयोनिरभवत्पुनर्नवः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यदिति॥ सोऽग्निवर्णो लग्नः सहकारश्चूतपल्लवो योस्मिस्तं रक्तपाटलस्य पाटलकुसुमस्य समागमो यस्य तमासवं मद्यं पपौ। इति यत्तेनासवपानेन मधुनिर्गमाद्वसन्तापगमात् कृशो मन्दवीर्यस्तस्य चित्तयोनिः कामः पुनर्नवः प्रबलोऽभवत् ॥

Verse 47
एवमिन्द्रियसुखानि निर्विशन्नन्यकार्यविमुखः स पार्थिवः । आत्मलक्षणनिवेदितानृतूनत्यवाहयदनङ्गवाहितः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): एवमिति॥ एवमनङ्गवाहितः कामप्रेरितोऽन्यकार्यविमुखः स पार्थिव इन्द्रियाणां सुखानि सुखकराणि शब्दादीनि निर्विशन्ननुभवन्नात्मनो लक्षणैः कुटजस्रग्धारणादिचिह्नैर्निवेदितान्। अयमृतुरिदानीं वर्तत इति ज्ञापितान्। ऋतून्वर्षादीन्। अत्यवाहयदगमयत् ॥

Verse 48
तं प्रमत्तमपि न प्रभावतः शेकुराक्रमितुमन्यपार्थिवाः । आमयस्तु रतिरागसंभवो दक्षशाप इव चन्द्रमक्षिणोत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ प्रमत्तं व्यसनासक्तमपि तं नृपं प्रभावतोऽन्यपार्थिवा आक्रमितुमभिभवितुं न शेकुर्न शक्ताः। रतिरागसंभव आमयो व्याधिस्तु। क्षयरोग इत्यर्थः। दक्षस्य दक्षप्रजापतेः शात्पश्चन्द्रमिव। अक्षिणोदकर्शयत्। शापोऽपि रतिरागसंभव इति। अत्र दक्षः किलान्याः स्वकन्या उपेक्ष्य रोहिण्यामेव रममाणं राजानं सोमं शशाप। स शापश्चाद्यापि क्षयरूपेण तं क्षिणोतीत्युपाख्यायते ॥

Verse 49
दृष्टदोषमपि तन्न सोऽत्यजत्सङ्गवस्तु भिषजामनाश्रवः । स्वादुभिस्तु विषयैर्हृतस्ततो दृःखमिन्द्रियगणो निवार्यते ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दृष्टेति॥ भिषजां वैद्यानामनाश्रवो वचसि न स्थितः। `वचने स्वित आश्रवः` इत्यमरः। अविधेय इत्यर्थः। स दृष्टदोषमपि। रोगजननादिति शेषः। ततत्सङ्गस्य वस्तु सङ्गवस्तु स्त्रीमद्यादिकं सङ्गजनकं वस्तु नात्यजत्। तथा हि-इन्द्रियगणः स्वादुभिर्विषयैर्हृतस्तु हृतश्चेत्ततस्तेभ्यो विषयेभ्यो दुःखं कृच्छ्रेण निवार्यते। यदि वार्येतेति शेषः। दुस्त्यजाः खलु विषया इत्यर्थः ॥

Verse 50
तस्य पाण्डुवदनाल्पभूषणा सावलम्बगमना मृदुस्वना । राजयक्ष्मपरिहानिराययौ कामयानसमवस्थया तुलाम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तस्येति॥ तस्य राज्ञः पाण्डुवदना। अल्पभूषणा परिमिताभरणा। सावलम्बं दासादिहस्तावलम्बसहितं गमनं यस्यां सा सावलम्बगमना। मृदुस्वना हीनस्वरा। राज्ञः सोमस्य यक्ष्मा राजयक्ष्मा क्षयरोगः । तेन या परिहानिः क्षीणावस्था सा। कामयते विषयानिच्छति कामयानः कामयमानः। कमेर्णिङन्ताच्छानच्। `अनित्यमागमशासनम्` इति मुमागमाभावः। एतदेवाभिप्रेत्योक्तं वामनेनापि (का.सू.5।2।83) `कामयानशब्दः सिद्धोऽनादिश्च` इति। तस्य समवस्थया कामुकावस्थया तुलां साम्यमाययौ प्राप। कालकृतो विशेषोऽवस्था। `विशेषः कालिकोऽवस्था` इत्यमरः (अ.को.1|4|31) ॥

Showing 41 to 50 of 57 verses