रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1 to 10 of 57 verses
Verse 1
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् । शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): अग्निवर्णमिति॥ श्रुतवतां श्रुतसंपन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ॥

Verse 2
तत्र तीर्थसलिलेन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः । सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र नैमिषे तिर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं विस्मृतो विस्मृतवान्सः। कर्तरि क्तः। फले स्वर्गादिफले निःस्पृहस्तपः संचिकाय संचितवान् ॥

Verse 3
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदिनी । भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): लब्धेति॥ ततत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धपालनविधौ लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप। अक्लेशेनापालयदित्यर्थः। कुतः? हि यस्मात्। भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता, प्रसाधयितुं न। प्रसाधनं कण्टकशोधनम्। अलंकृतिर्ध्वन्यते। तथा च यथालंकृत्य नीता युवतिः केवलमुपभुज्यते तद्वदिति भावः ॥

Verse 4
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः । संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ अभिकः कामुकः। `अनुकाभिकाभीकः कमिता` (पा.5।2।74) इति निपातः। `कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः` इत्यमरः। सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान् स्वयमवर्तयदकरोत्। अतःपरं सचिवेषु संनिवेश्य निधाय स्त्रीविधेयं स्त्र्यधीनं नवं यौवनं यस्य सोऽभवत्। स्त्र्यासक्तोऽभूदित्यर्थः ॥

Verse 5
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु । ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): कामिनीति॥ कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्द्धिः पूर्वस्मादधिकसंभारः उत्तर उत्सवः। ऋद्धिमन्तं साधनसंपन्नं पूर्वमुत्सवमपोहदपानुदत्। उत्तरोत्तराधिका तस्योत्सवपरम्परा वृत्तेत्यर्थः ॥

Verse 6
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् । अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): इन्द्रियेति॥ इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणभेदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवानिशमन्तरेव विहरन् समुत्सुका दर्शनाकाङ्क्षिणीः प्रजा न व्यपैक्षत नापेक्षितवान् ॥

Verse 7
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ । तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): गोरवादिति॥ जातु कदाचिन्मन्त्रिणां गौरवाद्गुरुत्वाद्धेतोः। मन्त्रिवचनानुरोघादित्यर्थः। प्रकृतिभिः प्रजाभिः काङ्क्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन चरणेन चरणमात्रेण कल्पितं संपादितम्, न तु मुखावलोकनप्रदानेनेत्यर्थः ॥

Verse 8
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् । भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): तमिति॥ कोमलेन मृदुलेनात्मनखानां रागेणारुप्येन रूषितं छुरितम्। अत एव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम्। तं चरणमनुजीविनः कृतप्रणतयः कृतनमस्काराः सन्तो भेजिरे सिषेविरे ॥

Verse 9
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्च दीर्घिकाः । गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): यौवनेति॥ विगाढमन्मथः प्रौढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि वासां ताः। तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गृढान्यन्तर्हितानि मोहनगृहाणि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहृत। स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः ॥

Verse 10
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः । अङ्गनास्तप्तधिकं व्यलोभयन्नार्पितप्रकृतकान्तिभिर्मुखैः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः। रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादि। रागस्य परिपाटलोऽङ्गगुणः। `गुणे शुक्लादयः पुंसि` इत्यमरः (अ.को.1|5|18)। धौतो रागपरिपाटलो येषां ते तथोक्ता अधरायेषां तैः। निवृत्तसांक्रमिकरागैरित्यर्थः। अत एवार्पितप्रकृतकान्तिभिः। अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः। एवंभूतैर्मुखे त्तनग्निवर्णमधिकं व्यलोभयन् प्रलोभितवत्यः ॥

Showing 1 to 10 of 57 verses