विद्यादीनामुपायैरधिगतिरवनं वर्धनं संप्रयोग— स्तीर्थेष्वर्थो य उक्तः समधिगतचरा पूर्वपूर्वागतानाम्।
तस्मिन् धीरोद्धतादेर्य इह विहरतो नायकस्याभिमानो— न्मानोच्छङ्कोऽपि मुख्यास्तमिह मतिमतामर्थशृङ्गारमाहुः॥ १८०॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते शृङ्गारप्रकाशे अर्थशृङ्गारप्रकाशनो नाम
तदिदमिह वितीर्णं सहितीकोषरत्नं विपुलति खलु यस्मिन् भारती भारतीया।
रहयति निजशोकं काव्यपाके प्ररूढं प्रविरलमिति रूढ्या मिथ्यया जायमानम्॥
रेवाप्रसादस्य ममास्ति भाग्यं वैपुल्ययोगेन दृढं पराम्बा।
ददौ यदेतं ननु मह्यमद्य साहित्यसेवाऽवसरं प्रशस्तम्॥