शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 41 to 50 of 69 verses
Verse 41
यियासितामथ मधुभिद्विवस्वता जनो जरन्महिषविषाणधूसराम् । पुरः पतत्परबलरेणुमालिनीमलक्षयद्दिशमभिधूमितामिव ॥
Metre: रुचिरा

Verse 42
मनस्विनामुदितगुरुप्रतिश्रुतिः श्रुतस्तथा न निजमृदङ्गनिःस्वनः । यथा पुरःसमरसमुद्यतद्विषद्वलानकध्वनिरुदकर्षयन्मनः ॥
Metre: रुचिरा

Verse 43
यथा यथा पटहरवः समीपतामुपागमत्स हरिवराग्रतः सरः । तथा तथा हृषितवपुर्मुदाकुला द्विषां चमूरजनि जनीव चेतसा ॥
Metre: रुचिरा

Verse 44
प्रसारिणि सपदि नभस्तले ततः समीरणभ्रमितपरागरूषिता । व्यभाव्यत प्रलयजकालिकाकृतिर्विदूरतः प्रतिबलकेतनावलिः ॥
Metre: रुचिरा

Verse 45
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥
Metre: रुचिरा

Verse 46
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥
Metre: रुचिरा

Verse 47
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥
Metre: रुचिरा

Verse 48
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥
Metre: रुचिरा

Verse 49
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥
Metre: रुचिरा

Verse 50
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः । विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥
Metre: रुचिरा