क्षणमात्ररोधि चलितेन कतिपयपदं नतभ्रुवः । स्रस्तभुजयुगगलद्वलयस्वनितं प्रतिक्षुतमिवोपशुश्रुवे ॥
Metre: उद्गीति (१२, १५, १२, १८)
अभिवर्त्म वल्लभतमस्य विगलदमलायतांशुका । भूमिनभसि रभसेन यती विरराज काचन समं महोल्कया ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
समरोन्मुखे नृपगणेऽपि तदनुमरणोद्यतैकधीः । दीनपरिजनकृताश्रुजलो न भटीजनः स्थिरमनाः विचक्लमे ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
विदुषीव दर्शनममुष्य युवतिरतिदुर्लभं पुनः । यान्तमनिमिषमतृप्तमनाः पतिमीक्षते स्म भृशया दृशः पथः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
सम्प्रत्युपेयाः कुशली पुनर्युधः सस्नेहमाशीरिति भर्तुरीरिता । सद्यः प्रसह्य द्वितयेन नेत्रयोः प्रत्याचचक्षे गलता भटस्त्रियाः ॥
Metre: इन्द्रवंशा
काचित्कीर्णा रजोभिर्दिवमनुविदधे भिन्नवक्त्रेन्दुलक्ष्मीरश्रीकाः काश्चिदन्तर्दिश इव दधिरे दाहमुद्भ्रान्तसत्वाः । भ्रेमुर्वात्या इवान्याः प्रतिपदमपरा भूमिवत्कम्पमापुः प्रस्थाने पार्थिवानामशिवमिति पुरो भावि नार्यः शशंसुः ॥
Metre: स्रग्धरा