वध्वा मनोरथाभ्रगर्भिण्या हस्तौ थरथरायेते॥ }
मध्या अधीराऽनूढा यथा—(गास. ८१ ० वे.)
सा अण्णवरविवाहे साहारिज्जइ सहीहि णिउणाहि।
चंडालहत्थगअउणि व्व जीए णिरालंबा॥ ३३६॥
(सा अन्यवरविवाहे संधार्यते सखीभिर्निपुणाभिः।
चण्डालहस्तगतशकुनिरिव जीविते निरालम्बा॥)
मध्या मुग्धा यथा—(गास. ३.४९)
अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स।
वाला/अज्जा णिमीलिअच्छी पअपरिपाडिं घरे कुणइ॥ ३३७॥
(अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य।