तं जगाद गिरमुद्गिरन्निव स्नेहमाहितविकासया दृशा । यज्ञकर्मणि मनः समादधद्वाग्विदां वरमकमद्वदो नृपः ॥
Metre: रथोद्धता
लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेतिन तव प्रियं वदन्ह्रीमतात्रभवतैव भूयते ॥
Metre: रथोद्धता
तोषमेति वितथैः स्तवैः परस्ते च तस्य सुलभाः शरीरिभिः । अस्ति न स्तुतिवचोऽनृतं तव स्तोत्रयोग्यन च तेन तुष्यसि ॥
Metre: रथोद्धता
बह्वपि प्रियमयं तव ब्रुवन्न व्रजत्यनृतवादितां जनः । सम्भवन्ति यददोषदूषिते सार्व सर्वगुणसम्पदस्त्वयि ॥
Metre: रथोद्धता
सा विभूतिरनुभाव सम्पदां भूयसी तव यदायतायति । एतदूढगुरुभार भारतं वर्षमद्य मम वर्तते वशे ॥
Metre: रथोद्धता
सप्ततन्तुमधिगन्तुमिच्छतः कुर्वनुग्रहमनुज्ञया मम । मूलतामुपगते प्रभो त्वयि प्रापि धर्ममयवृक्षता मया ॥
Metre: रथोद्धता
सम्भृतोपकरणेन निर्मलां कर्तुमिष्टिमभिवाञ्छता मया । त्वं समीरण इव प्रतीक्षितः कर्षकेण वलजान्पुपूषता ॥
Metre: रथोद्धता
वीतविघ्नमनघेन भाविता सन्निधेस्तव मखेन मेऽधुना । को विहन्तुमलमास्थितोदये वासरश्रियमशीतदीधितौ ॥
Metre: रथोद्धता
स्वापतेयमधिगम्य धर्मतः पर्यपालयमवीवृधं च यत् । तीर्थगामी करवै विधानतस्तज्जुषस्व जुहवानि चानले ॥
Metre: उपजातिः
पूर्वमङ्ग जुहुधि त्वमेव वा स्नातवत्यवभृथे ततस्त्वयि । सोमपायिनि भविष्यते मया वाञ्छितोत्तमवितानयाजिना ॥
Metre: रथोद्धता