अथतत्र पाण्डुतनयेन सदसि विहितं मुरद्विषः । मानमसहत न चेदिपतिः परवृद्धिमत्सरि मनो हि मानिनाम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
पुर एव शार्ङ्गिणि सवैरमथ पुनरमुं तदर्चया । मन्युरभजदवगाढतरः समदोषकाल इव देहिनं ज्वरः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
अभितर्जयन्निव समस्तनृपगणमसावकम्पयत् । लोलमुकुटमणिरश्मि शनैरशनैः प्रकम्पितजगत्त्रयं शिरः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
स वमन्रुषाश्रु घनघर्मविगलदुरुगण्डमण्डलः । स्वेदजलकणकरालकरो व्यरुचत्प्रभिन्न इव कुञ्जरस्त्रिधा ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
स निकामघर्मितमभीक्ष्णमधुवदवधूतराजकः । क्षिप्तबहुलजलबिन्दु वपुः प्रलयार्णवोत्थित इवादिशूकरः ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
क्षणमाश्लिषद्द्घटितशैलशिखरकठिनांसमण्डनः । स्तम्भमुपहितविधूतिमसावधिकावधूनितसमस्तसंसदम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कनकाङ्गदद्युतिभिरस्य गमितमरुचत्पिशङ्गताम् । क्रोधमयशिखिशिखापटलैः परितः परीतमिव बाहुमण्डलम् ॥
Metre: उद्गता = [१०: सजसल] + [१०: नसजग] + [११: भनजलग] + [१३: सजसजग]
कृतसन्निधानमिव तस्य पुनरपि तृतीयचक्षुषा । क्रूरमजनि कुटिलभ्रु गुरुभ्रुकुटीकठोरितललाटमाननम् ॥
Metre: उपजातिः
अतिरक्तभावमुपगम्य कृतमतिरमुष्य साहसे । दृष्टिरगणितभयासिलतामलम्बते स्म सभया सखीमिव ॥
Metre: आर्या (१२, १८, १२, १५)
करकुड्मलेन निजमूरुमुरुतरनगाश्मकर्कशम् । त्रस्तचपलचलमानजनश्रुतभीमनादमयमाहतोच्चकैः ॥
Metre: उद्गीति (१२, १५, १२, १८)