शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1 to 10 of 69 verses
Verse 1
यमुनामतीतमथ शुश्रुवानमुमुं तपसस्तनूज इति नाधुनोच्यते । स यदाचलन्निजपुरादहर्निशं नृपतेस्तदादि समचारि वार्तया ॥
Metre: मञ्जुभाषिणी

Verse 2
यदुभर्तुरागमनलब्धजन्मनः प्रमदादमानिव पुरे महीयसि । सहसा ततः स सहितोऽनुजन्मभिर्वसुधाधिपोऽभिमुखमस्यनिर्ययौ ॥
Metre: मञ्जुभाषिणी

Verse 3
रभसप्रवृत्तकुरुचक्रदुन्दुभिध्वनिभिर्जनस्य बधिरीकृतश्रुतेः । समवादि वक्तृभिरभीष्टसङ्कथाप्रकृतार्थशेषमथ हस्तसंज्ञया ॥
Metre: मञ्जुभाषिणी

Verse 4
अपदान्तरं च परितः क्षितिक्षितामपतन्द्रुतभ्रमितहेमनेमयः । जविमारुताञ्चितपरस्परोपमक्षितिरेणुकेतुवसनाः पताकिनः ॥
Metre: मञ्जुभाषिणी

Verse 5
द्रुतमध्वनन्नुपरि पाणिवृत्तयः पणवा इवाश्वचरणक्षता भुवः । ननृतुश्च वारिधरधीरवारणध्वनिहृष्टकूजितकलाः कलापिनः ॥
Metre: मञ्जुभाषिणी

Verse 6
व्रजतोरपि प्रणयपूर्वमेकतामसुरारिपाण्डुसुतसैन्ययोस्तदा । ररुषे विषाणिभिरनुक्षणंमिथो मदमूढबुद्धिषु विवेकिता कुतः? ॥
Metre: मञ्जुभाषिणी

Verse 7
अवलोक एव नृपतेः स्म दूरतो रभसाद्रथादवतरीतुमिच्छतः । अवतीर्णवान्प्रथममात्मना हरिर्विनयं विशेषयति सम्भ्रमेण सः ॥
Metre: मञ्जुभाषिणी

Verse 8
वपुषा पुराणपुरुषः पुरः क्षितौ परिपुञ्ज्यमानपृथुहारयष्टिना । भुवनैर्नतोऽपि विहितात्त्मगौरवः प्रणनाम नाम तनयं पितृष्वसुः ॥
Metre: मञ्जुभाषिणी

Verse 9
मुकुटांशुरञ्जितपरागमग्रतः स न यावदाप शिरसा महीतलम् । क्षितिपेन तावदनपेक्षितक्रमं भुजपञ्जरेण रभसादगृह्यत ॥
Metre: मञ्जुभाषिणी

Verse 10
न ममौ कपाटतटविस्तृतं तनौ मुरवैरिमवक्ष उरसि क्षमाभुजः । भुजयोस्तथापि युगलेन दीर्घयोर्विकटीकृतेन परितोऽभिषस्वजे ॥
Metre: मञ्जुभाषिणी

Showing 1 to 10 of 69 verses