इत्थं रथाश्वेभनिषादिनां प्रगे गणो नृपाणामथ तोरणाद्बहिः । प्रस्थानकालक्षमवेषकल्पनाकृतक्षणक्षेपमुदैक्षताच्युतम् ॥
स्वक्षं सुपत्रं कनकोज्वलद्युतिं जवेन नागाञ्जितवन्तमुच्चकैः । आरुह्य तार्क्ष्य नभसीव भूतले ययावनुद्घातमुखेन सोऽध्वना ॥
Metre: उपजातिः
हस्तस्थिताखण्डितचक्रशालिनं द्वजेन्द्रकान्तं श्रितवक्षसं श्रिया । सत्यानुरक्तं नरकस्य जिष्णवो गुणैर्नृपाः शाङ्गिणमन्ययासिषुः ॥
शुक्लैः सतारैर्मुकुलीकृतैः स्थूलैः कुमुद्वतीनां कुमुदाकरैरिव । व्युष्टं प्रयाणं च वियोगवेदनाविदूननारीकमभूत्समं तदा ॥
उत्क्षिप्तगात्रः स्म विडम्बयन्नभः समुत्पतिष्यन्तमगेन्द्रमुच्चकैः । आकुञ्चितप्रोहनिरूपितक्रमं करेणुरारोहयते निषादिनम् ॥
स्वैरं कृतास्फालनललितान्पुरः स्फुरत्नून्दर्शितलाघवक्रियाः । वङ्गावलग्नैकसवल्गपाणयस्तुरङ्गमानारुरुहुस्तुरङ्गिणः ॥
अह्नाय यावन्न चकार भूयसे निषेदिवानासनबन्धमध्वने । तीव्रोत्थितास्तावदसह्यरंहसो विशृङ्खलं शृङ्खलकाः प्रतस्थिरे ॥
गण्डोज्वलामुज्ज्वनाभिचक्रया विराजमानां नवयोदरश्रिया । कश्चित्सुखं प्राप्तुमनाः सुसारथी रथीं युयोजाधिधुरां वधूमिव ॥
Metre: वंशस्थम्
उत्थातुमिच्छन्विधृतः पुरो बलान्निधीयमाने भरभाजि यन्त्रके । अर्धोज्झितोद्गारविझर्झरस्वरः स्वनाम निन्ये रवणः स्फुटार्थताम् ॥
नस्यागृहीतोऽपि धुवन्विषाणयोर्युगं ससूत्कारविवर्तितत्रिकः । गोणीं जनन स्म निधातुमुद्धृतामनुक्षणं नोक्षतरः प्रतीच्छति ॥
Metre: उपजातिः