शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1 to 10 of 66 verses
Verse 1
श्रुतिसमधिकमुच्चैः पञ्चमं पीडयन्तः सततममृषभहीनं भिन्नकीकृत्य षड्जम् । प्रणिजगदुरकाकुश्रावकस्निग्धकण्ठाः परिणतिमिति रात्रेर्मागधा माधवाय ॥
Metre: मालिनी

Verse 2
रतिरभसविलासाभ्यासतान्तं न यावन्नयनयुगममीलत्तावदेवाहतोऽसौ । रजनिविरतिशंसी कामिनीनां भविष्यद्विरहविहितनिद्राभङ्गमुच्चैर्मृदङ्गः ॥
Metre: मालिनी

Verse 4
प्रहरकमपनीय स्वं निदिद्रासतोच्चैः प्रतिपदमुपहूतः केनचिज्जागृहीति । मुहुरविशदवर्णां निद्रया शून्यशून्यां दददपि गिरमन्तर्बुद्ध्यते नो मनुष्यः ॥
Metre: मालिनी

Verse 5
विपुलतरनितम्बाभोगरुद्धे रमण्याः शयितुमनधिगच्छञ्जीवितेशोऽवकाशम् । रतिपरिचयनश्यन्नैन्द्रतन्द्रः कथञ्चिद्गमयति शयनीये शर्वरी किं करोतु ॥
Metre: मालिनी

Verse 6
क्षणशयितविबुद्धाः कल्पयन्तः प्रयोगानुदधिमहति राज्ये काव्यवद्दुर्विगाहे । गहनमपररात्रप्राप्तबुद्धिप्रसादाः कवय इव महीपाश्चिन्तयन्त्यर्थजातम् ॥
Metre: मालिनी

Verse 7
क्षितितटशयनान्तादुत्थितं दानपङ्गप्लुतबहुलशरीरं शाययत्येष भूयः । मृदुचलदपरान्तोदीरितान्दूनिनादं गजपतिमधिरोहः पक्षकव्यत्ययेन ॥
Metre: मालिनी

Verse 8
द्रुततरकरदक्षाः क्षिप्तवैशखशैले दधति दधनि धीरानारवान्वारिणीव । शशिनमिव सुरौघाःसारमुद्धर्तुमेते कलशिमुदधिगुर्वी वल्लवा लोडयन्ति ॥
Metre: मालिनी

Verse 9
अनुनयमगृहीत्वा व्याजसुप्ता पराची रुतमथ कृकवाकोस्तारमाकर्ण्य कल्पे । कथमपि परिवृत्ता निद्रयान्धा किल स्त्री मुकुलितनयनैवा शिलिष्यति प्राणनाथम् ॥
Metre: मालिनी

Verse 10
गतमनुगतवीणैरेकतां वेणुनादैः कलमविकलतालं गायकैर्बोधहेतोः । असकृदनवगीतं गीतमाकर्णयन्तः सुखमुकुलितनेत्रा यान्ति निद्रां नरेन्द्राः ॥
Metre: मालिनी

Verse 11
परिशिथिलितकर्णग्रीवमामीलिताक्षः क्षणमयमनुभूय स्वप्नमूर्ध्वज्ञुरेव । रिरसयिषति भूयः शष्पमग्रे विकीर्णं पटुतरचपलौष्ठः प्रस्फुरत्प्रोथमश्वः ॥
Metre: मालिनी

Showing 1 to 10 of 66 verses