शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Disable Parallel


Showing 1 to 10 of 91 verses
Verse 1
सञ्जितानि सुरभीण्यथ यूनामुल्लसन्नयनवारिरुहाणि । आयुषः शुघटितानि सुरायाः पात्रतां प्रियतमावदनानि ॥
Metre: स्वागता

Verse 2
सोपचारमुपशान्तविचारं सानुतर्षमनुतर्षपदेन । ते मुहूर्तमथ मूर्तमपीप्यन्प्रम मानमवधूय वधूः स्वाः ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 3
कान्ताकान्तवदनप्रतिबिम्बे भग्नबालसहकारसुगन्धौ । स्वादुनि प्रणदितालिनि शीते निर्विवार मधुनीन्द्रियवर्गः ॥
Metre: उपजातिः

Verse 4
कापिशायनसुगन्धि विघूर्णन्नुन्मदोऽधिशयितुं समशेत । फुल्लदृष्टि वदनं प्रमदानामब्जचारु चषकं च षडङ्ध्रिः ॥
Metre: स्वागता

Verse 5
बिम्बितं बृतपरिस्रुति जानन्भाजने जलजमित्यबलायाः । घ्रातुमक्षि पतति भ्रमरः स्म भ्रान्तिभाजि भवति क्व विवेकः ॥
Metre: स्वागता

Verse 6
दत्तमिष्टतमया मधु पत्युर्बाडमाप पिबतो रसवत्ताम् । यत्सुवर्णमुकुटांशुभिरासाच्चेतनाविरहितैरपि पतिम् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 7
स्वदनेन सुतनोरविचारादोष्ठतः समचरिष्ट रसोऽत्र । अन्यमन्यदिव यन्मनधु यूनः स्वादमिष्टमतनिष्ट तदेव ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 8
बिभ्रतौ मधुरतामतिमात्रं रागिभिर्युगपदेव पपाते । आननैर्मधुरसो विकसदभिर्नासिकाभिरसितोत्पलगन्धः ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Verse 9
पतिवत्यभिमते मधुतुल्यस्वादमोष्ठकं विददङ्क्षौ । लभ्यते स्म परिरक्ततयात्मा यावकेन वियतापि युवत्याः ॥
Metre: गीति (१२, १८, १२, १८)

Verse 10
कस्यचित्समदनं मदनीयप्रयसीवदनपानपरस्य । स्वादितः सकृदिवासव एव प्रत्युत क्षणविदंशपदेऽभूत् ॥
Metre: आर्यागीति (१२, २०, १२, २०)

Showing 1 to 10 of 91 verses