रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 81 to 87 of 87 verses
Verse 81
ता इङ्गुदीस्नेहकृतदप्रदीपमास्तीर्णमेध्याजिनतल्पमन्तः । तस्यै सपर्यानुपदं दिनान्दे निवासहेतोरुटजं वितेरुः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): ता इति॥ तास्तापस्यः। तस्यै सीतायै सपर्यानुपदं पूजानन्तरं दिनान्ते सायंकाले निवास एव हेतुस्तस्य निवासहेतोः, निवासार्थमित्यर्थः। `षष्टी हेतुप्रयोगे` (पा.2।3।26) इति षष्ठी। `इङ्गुदी तापसतरुः` इत्यमरः (अ.को.2|4|46)। इङ्गदीस्नेहेन कृतप्रदीपमन्तरास्तीर्णं मेध्यं शुद्धमजिनमेव तल्पं शय्या यस्मिंस्तमुटजं पर्णशालां वितेरुर्ददुः ॥

Verse 82
तत्राभिषेकप्रयता वसन्ती प्रयुक्तपूजा विधिनातिथिभ्यः । वन्येन सा वल्कलिनी शरीरं पत्युः प्रजासंततये बभार ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): तत्रेति॥ तत्राश्रमेऽभिषेकेण स्नानेन प्रयता नियता वसन्ती विधइना शास्त्रेणातिथिभ्यः प्रयुक्तपूजा कृतसत्कारा वल्कलिनी सा सीता पत्युः प्रजासंततये संतानाविच्छेदाय हेतोः। वन्येन कन्दमूलादिना शरीरं बभार पुपोष ॥

Verse 83
अपि प्रभुः सानुशयोऽधुना स्यात्किमुत्सुकः शक्रजितोऽपि हन्ता । शशंस सीतापरिदेवनान्तमनुष्ठितं शासनमग्रजाय ॥
Metre: उपेन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): अपीति॥ प्रभू राजा। अधुनापि सानुशयः सानुतापः स्यात्किम् इति काकुः। उत्सुकः शक्रजित इन्द्रजितो हन्ता लक्ष्मणोऽपि सीतापरिदेवनान्तं साताविलापान्तमनुष्ठितं शासनमग्रजाय शशंस ॥

Verse 84
बभूव रामः सहसा सबाष्पस्तुषारवर्षीव सहस्यचन्द्रः । कौलीनभीतेन गृहान्निरस्ता न तेन वैदेहसुता मनस्तः ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): बभूवेति॥ सहसा सपदि सबाष्पो रामः। तुषारवर्षी सहस्यचन्द्र इव बभूव। अत्यश्रुतया तुषारवर्षिणा पौषचन्द्रेण तुल्योऽभूत्। `पौषे तैषसहस्यौ द्वौ` इत्यमरः (अ.को.1|4|16)। युक्तं चैतदित्याह-कौलीनाल्लोकापवादाद्भीतेन तेन रामेण वैदेहसुता सीता गृहान्निरस्ता। न मनस्तो मनसश्चित्तान्न निरस्ता। पञ्चम्यास्तसिल् ॥

Verse 85
निगृह्य शोकं स्वयमेव धीमान्वर्णाश्रमावेक्षणजागरूकः । स भ्रातृसाधारणभोगमृद्धं राज्यं रजोरिक्तमनाः शशास ॥
Metre: उपजातिः
सञ्जीविनीटीका (मल्लिनाथः): निगृह्येति॥ धीमान् वर्णानामाश्रमाणां चावेक्षणेऽनुसंधाने जागरूकोऽप्रमत्तः `जागरूकः` (पा.3।2।165)इत्यूकप्रत्ययः। रजोरिक्तमना रजोगुणशून्यचेताः स रामः स्वयमेव शोकं निगृह्य निरुध्य भ्रातृभिः साधारणभोगम्। शरीरस्थितिमात्रोपयुक्तमित्यर्थः। ऋद्धं राज्यं शशास ॥

Verse 86
तामेकभार्यां परिवादभीरोः साध्वीमपि त्यक्तवतो नृपस्य । वक्षस्यसंघट्टसुखं वसन्ती रेजे सपत्नीरहितेव लक्ष्मीः ॥
Metre: इन्द्रवज्रा
सञ्जीविनीटीका (मल्लिनाथः): तामिति॥ परिवादभीरोर्निन्दाभीरोरत एव एकभार्यामपि साध्वीमपि तां सीतां त्यक्तवतो नृपस्य वक्षस्यसंघट्टसुखमसंभाव्यसुखं वसन्ती लक्ष्मीः सपत्नीरहितेव रेजे दिदीपे। तस्य स्त्र्यन्तरपरिग्रहो नाभूदिति भावः ॥

Verse 87
सीतां हित्वा दशमुखरिपुर्नोपयेमे यदन्यां तस्या एव प्रतिकृतिसखो यत्क्रतूनाजहार । वृत्तान्तेन श्रवणविषयप्रापिणा तेन भर्तुः सा दुर्वारं कथमपि परित्यागदुःखं विषेहे ॥
Metre: मन्दाक्रान्ता
सञ्जीविनीटीका (मल्लिनाथः): सीतामिति॥ दशमुखरिपू रामः सीतां हित्वा त्यक्त्वाऽन्यां स्त्रियं नोपयेमे न परिणीतवानिति यत्। `उपाद्यमः स्वकरणे` (पा.1।3।56) इत्यात्मनेपदम्। किंच, तस्याः सीताया एव प्रतिकृतेः प्रतिमायाः हिरण्मय्याः सखा प्रतिकृतिसखः सन् क्रतूनाजहाराहृतवानिति यत्तेन श्रवणविषयप्रापिणा श्रोत्रदेशगामिना भर्तुर्वृत्तान्तेन वार्तया हेतुना सा सीता दुर्वारं दुर्निरोधं परेत्यागेन यद्दुःखं तत्कथमपि विषेहे विसोढवती ॥

Showing 81 to 87 of 87 verses