ततः स कोपं क्षमया निग्र्ह्णन्धैर्येण मन्युं विनयेन गर्वम् । मोहं धियोत्साह-वशादशक्तिं समं चतुर्भिः सचिवैरुदस्थात् ॥
Metre: इन्द्रवज्रा
उवाच चैनं क्षणदा-चरेन्द्रं "सुखं महा-राज ! विना मयाऽऽस्स्व। । मूर्खाऽऽतुरः पथ्य-कटूननश्नन्यत्साऽऽमयोऽऽसौ भिषजां न दोषः ॥
Metre: उपजातिः
करोति वैरं स्फुटमुच्यमानः प्रतुष्यति श्रोत्र-सुखैर-पथ्यैः । विवेक-शून्यः प्रभुरात्म-मानी महाननर्थः सुहृदां बताऽयम् ॥
Metre: उपेन्द्रवज्रा
क्रीडन्भुजङ्गेन गृहाऽनुपातं कश्चिद्यथा जीवति संशय-स्थः । संसेवमानो नृ-पतिं प्र-मूढं तथैव यज्जीवति सोऽस्य लाभः ॥
Metre: उपजातिः
दत्तः स्व-दोषैर्भवता प्रहारः पादेन धर्म्ये पथि मे स्थितस्य । स चिन्तनीयः सह मन्त्रि-मुख्यैः कस्याऽऽवयोर्लाघवमादधातु ॥
Metre: उपजातिः
इति वचनमसौ रजनि-चर-पतिं बहु-गुणमसकृत्प्रसभमभिदधत् । निरगमद-भयः पुरुष-रिपु-पुरान्नर-पति-चरणौ नवितुमरि-नुतौ ॥
Metre: प्रहरणकलिका
अथ तमुपगतं विदित-सुचरितं पवन-सुत-गिरा गिरि-गुरु-हृदयः । नृ-पतिरमदयन्मुदित-परिजनं स्व-पुर-पति-करैः सलिल-समुदयैः ॥
Metre: प्रहरणकलिका