शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 71 to 77 of 77 verses
Verse 71
लोलैररित्रैश्चरणैरिवाभितो जवात्व्रजन्तीभिरसौ सरिज्जनैः । नौभिः प्रतेरे परितः प्लवोदितभ्रमीनिमीलल्ललनावलम्बितैः ॥

Verse 72
तत्पूर्वमंसद्वयसं द्विपाधिपाः क्षणं सहेलाः परितो जगाहिरे । सद्यस्ततस्तेरुरनारतस्रुतस्वदानवारिप्रचुरीकृतं पयः ॥

Verse 73
प्रोथैः स्फुरद्भिः स्फुटशब्दमुन्मुखैस्तुरङ्गमैरायतकीर्णवालधि । उत्कर्णमुद्वाहितधीरकन्धरैरतीर्यताग्रे तटदत्तदृष्टिभिः ॥

Verse 74
तीर्त्वा जनेनैव नितान्तदुस्तरां नदीं प्रतिज्ञामिव तां गरीयसीम् । शृङ्गैरपस्कीर्णमहत्तटीभुवामशोभतोच्चैर्नदितं ककुद्मताम् ॥

Verse 75
सीमन्त्यमाना यदुभूभृतां बलैर्बभौ तरिद्भिर्गवलासितद्युतिः । सिन्दूरितानेकपकङ्गणाङ्किता तरङ्गिणी वेणिरिवायता भुवः ॥

Verse 76
अव्याहतक्षिप्रगतैः समुच्छ्रिताननुज्झितद्रामबिर्गरीयसः । नाव्यं पयःकेचिदतारिषुर्भुजैः क्षिपद्भिरूर्मीनपरैरिवोर्मिभिः ॥
Metre: इन्द्रवज्रा

Verse 77
विदलितमहाकूलामुक्ष्णां विषाणविघट्टनैरलघुचरणाकृष्टग्राहां विपणिभिरुन्मदैः । सपदि सरितं सा श्रीभर्तुर्बृहद्रथमण्डलस्खलिलमुल्लङ्घ्यैनां जगाम वरूथिनी ॥

Showing 71 to 77 of 77 verses