इति स्म ब्रह्मवादिनः पूर्वे वदन्ति,
इति ह स्म तत्रभवान् भागुरायणः,
यत् किलेह तरुषण्डे पाण्डवा ऊषुः,
शश्वत् किलेदमित्थं बभूव,
एवमन्येऽपि यथा प्रयोगमनुसर्त्तव्याः,
एते चाऽनुवादतोऽन्यत्रापि वेदितव्या इति।
न, नञ्, अ, अन, नो, नकिर्, किं, न हि इति प्रतिषेधार्थाः।