रथाङ्गभाजा कमलानुषङ्गिणा शिलीमुखस्तोमसखेन शार्ङ्गिणा । सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषाहिभुवान्वयायि यः ॥
Metre: वंशस्थम्
तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गरेखा बिभरांबभूव यः । दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसंचयश्च यः ॥
Metre: वंशस्थम्
महीयसः पङ्कजमण्डलस्य यश्छलेन गौरस्य च मेचकस्य च । नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन्विधुकालकूटयोः ॥
Metre: वंशस्थम्
चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः । ध्रुवं दधुर्वाडवहव्यवाडवस्थितिप्ररोहत्तमभूमधूमताम् ॥
Metre: वंशस्थम्
प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती । धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता ॥
Metre: वंशस्थम्
यदम्बुपूरप्रतिबिम्बितायतिर्मरुत्तरङ्गैस्तरलस्तटद्रुमः । निमज्ज्य मैनाकमहीभृतः सतस्ततान पक्षान्धुवतः सपक्षताम् ॥
Metre: वंशस्थम्
पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् । स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥
Metre: वंशस्थम्
प्रियासु बालासु रतक्षमासु च द्विपत्रितं पल्लवितं च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥
Metre: वंशस्थम्
महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् । प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनागभूत् ॥
Metre: वंशस्थम्
अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥
Metre: वंशस्थम्