आर्य असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् ।
मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
शकु अनसूये अभिनवकुशसूच्या परीक्षतं चरणं कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां यावदेतन्मोचयामि ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता)
मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः । चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥
Metre: आर्या
(इति निष्क्रान्ताः सर्वे)