विकार्मुकः कर्मसु शोचनीयः परिच्युतौदार्य इवोपचारः । विचिक्षिपे शूलभृता सलीलं स पत्रिभिर्दूरमदूरपातैः ॥
Metre: उपेन्द्रवज्रा
उपोढकल्याणफलोऽभिरक्षन्वीरव्रतं पुण्यरणाश्रमस्थः । जपोपवासैरिव संयतात्मा तेपे मुनिस्तैरिषुभिः शिवस्य ॥
Metre: उपजातिः
ततोऽग्रभूमिं व्यवसायसिद्धेः सीमानमन्यैरतिदुस्तरं सः । तेजःश्रियामाश्रयमुत्तमासिं साक्षादहंकारमिवाललम्बे ॥
Metre: उपजातिः
शरानवद्यन्ननवद्यकर्मा चचार चित्रं प्रविचारमार्गैः । हस्तेन निस्त्रिंशभृता स दीप्तः सार्कांशुना वारिधिरूर्मिणेव ॥
Metre: उपजातिः
यथा निजे वर्त्मनि भाति भाभिश्च्यायामयश्चाप्सु सहस्ररश्मिः । तथा नभस्याशु रणस्थलीषु स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥
Metre: उपजातिः
शिवप्रणुन्नेन शिलीमुखेन त्सरुप्रदेशादपवर्जिताङ्गः । ज्वलन्नसिस्तस्य पपात पाणेर्घनस्य वप्रादिव वैद्युतोऽग्निः ॥
Metre: उपेन्द्रवज्रा
आक्षिप्तचापावरणेषुजालश्छिन्नोत्तमासिः स मृधेऽवधूतः । रिक्तः प्रकाशश्च बभूव भूमेरुत्सादितोद्यान इव प्रदेशः ॥
Metre: इन्द्रवज्रा
स खण्डनं प्राप्य परादमर्षवान्भुजद्वितीयोऽपि विजेतुमिच्छया । ससर्ज वृष्टिं परिरुग्णपादपां द्रवेतरेषां पयसामिवाश्मनाम् ॥
Metre: वंशस्थम्
नीरन्ध्रं परिगमिते क्षयं पृषत्कैर्भूतानामधिपतिना शिलाविताने । उच्छ्रायस्थगितनभोदिगन्तरालं चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥
Metre: प्रहर्षिणी
निःशेषं शकलितवल्कलाङ्गसारैः कुर्वद्भिर्भुवमभितः कषायचित्राम् । ईशानः सकुसुमपल्लवैर्नगैस्तैरातेने बलिमिव रङ्गदेवताभ्यः ॥
Metre: प्रहर्षिणी