स्वयं विधाता सुरदैत्यरक्षसामनुग्रहावग्रहयोर्यदृच्छया । दशाननादीनभिराद्धदैवतावितीर्णवीर्यातिशयान्हसत्यसौ ॥
Metre: वंशस्थम्
बलावलेपादधुनापिपूर्ववप्रबाद्ध्यते तेन जगज्जिगीषुणा । सतीव योषित्प्रकृतिः सुनिश्चला पुमांसंमब्येति भवान्तरेष्वपि ॥
Metre: वंशस्थम्
तदेनमुल्लङ्घितशासनं विधेर्विधेहि कीनाशनिकेतनातिथिम् । शुभेतराचारविपक्त्रिमापदो विपादनीया हि सतामसाधवः ॥
Metre: वंशस्थम्
हृदयमविरोधोदयददूढद्रढिम दधातु पुनः पुरन्दरस्य । घनपुलकपुलोमजाकुचाग्रद्रुतपरिरम्भनिपीडनक्षमत्वम् ॥
ओमित्युक्तवतोऽथ शाङ्गिणा इति व्याहृत्य वाचं नभस्तस्मिन्नुत्पतिते पुरः सुरमुनाविन्दोः श्रियं बिभ्रति । शत्रुणामनिश विनाशपिशुनः क्रुद्धस्य चैद्यं प्रति व्योम्नि भ्रकुटिच्छलेन वदने केतुशचकारास्पदम् ॥
Metre: उपजातिः
यियक्षमाणेनाहूतः पार्थेनाथ द्विषन्मुरम् । अभिचैद्यं प्रतिष्ठासुरासीत्कार्यद्वयाकुलः ॥
Metre: अनुष्टुप्
सार्थमुध्धवसीरिभ्यामथासावसदत्सदः । गुरुकाव्यानुगां बिभ्रच्चान्द्रीमभिनभः श्रियम् ॥
Metre: अनुष्टुप्
जाज्वल्यमाना जगतः शान्तये समुपेयुषी । व्यद्योतिष्टसभावेद्यामसौ नरशिखित्रयी ॥
Metre: अनुष्टुप्
रत्नस्तम्भेषु संक्रान्तप्रतिमास्ते चकाशिरे । एकाकिनोऽपि परितः पौरुषेयवृता इव ॥
Metre: अनुष्टुप्
अध्यासामासुरुत्तुङ्गहेमपीठानि यान्यमी । तैरूहे केशारिक्रान्तत्रिकूटशिखिरोपमा ॥
Metre: अनुष्टुप्