इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥
Metre: द्रुतविलम्बितम्
सालक्तकेन नवपल्लवकोमलेन पादेन नूपुरवता मदनालसेन । यस्ताड्यते दयितया प्रणयाराधात्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥
Metre: वसन्ततिलका
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि । तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥
Metre: शार्दूलविक्रीडितम्
नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागान्कौन्दान् आनन्दितालीन् अतितरसुरभीन्भूरिशो दिङ्मुखेषु । एते ते कुङ्कुमाक्तस्तनकलशभरास्फालनाद् उच्छलन्तः पीत्वा शीत्कारिवक्त्रं शिशुहरिदृशां हैमना वान्ति वाताः ॥
Metre: स्रग्धरा
श्रुत्वा तन्व्या निशीथे नवघनरसितं विश्लथाङ्कं पतित्वा शय्यायां भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटाघातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥
Metre: स्रग्धरा
श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चुम्बत्यस्मिन्वदनविधुतिः किं कृता किं न दृष्टः । नोक्तः कस्माद् इति नववधूचेष्टितं चिन्तयन्ती पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥
Metre: मन्दाक्रान्ता
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्तात्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागत्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस्य चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु ॥
Metre: स्रग्धरा
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलालकवल्लरीं प्रचलयन्धुन्वन्नितम्बाम्बरम् । प्रातर्वाति मधौ प्रकामविकसद्राजीवराजीरजो जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥
Metre: शार्दूलविक्रीडितम्
अङ्गं चन्दनपाण्डुपल्लवमृदुस्ताम्बूलताम्राधरो धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने । अन्तःपुष्पसुगन्धिरार्द्रकवरी सर्वाङ्गलग्नाम्बरं रोमाणां रमणीयतां विदधति ग्रीष्मापराह्वागमे ॥
Metre: शार्दूलविक्रीडितम्
वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिवा । उभयमेतद् उपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥
Metre: द्रुतविलम्बितम्