रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 41 to 50 of 1569 verses
Verse 41
श्रेणीबन्धाद्वितन्वद्भिरस्तम्भां तोरणस्रजम् । सारसैः कलनिर्ह्रादैः क्वचिदुन्नमिताननौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): श्रेणीति॥ श्रेणीबन्धात् पङ्क्तिबन्धनाद्धेतोः अस्तम्भामाधारस्तम्भरहिताम्। तोरणं बहिर्द्वारम्। `तोरणोऽस्त्री बहिर्द्वारम्` इत्यमरः (अ.को.2|2|17)। तत्र या स्रग्विरच्यते तां तोरणस्रजं वितन्वद्भिः। कुर्वद्भिरिवेत्यर्थः। उत्प्रेक्षाव्यञ्जकेवशब्दप्रयोगाभावेऽपि गम्योत्प्रेक्षेयम्। कलनिर्ह्लादैरव्यक्तमधुरध्वनिभिः सारसैः पक्षिविशेषैः करणैः क्वचिदुन्नमिताननौ। `सारसो मैथुनी कामी गोनर्दः पुष्कराह्वयः` इति यादवः ॥

Verse 42
पवनस्यानुकूलत्वात्प्रार्थनासिद्धिशंसिनः । रजोभिस्तुरगोत्कीर्णैरस्पृष्टालकवेष्टनौ ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): पवनस्येति॥ प्रार्थनासिद्धिशंसिनोऽनुकूलत्वादेव मनोरथसिद्धिसूचकस्य पवनस्यानुकूलत्वाद्गन्तव्यदिगभिमुखत्वात्। तुरगोत्कीर्णै रजोभिरस्पृष्टा अलका देव्या वेष्टनमुष्णीषं च राज्ञो ययोस्तौ तथोक्तौ। `शिरसा वेष्टनशोभिना सुतः` (8। 12)इति वक्ष्यति॥

Verse 43
सरसीष्वरविन्दानां वीचिविक्षोभशीतलम् । आमोदमुपजिघ्रन्तौ स्वनिःश्वासानकारिणम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): सरसीष्विति॥ सरसीषु वीचिविक्षोभशीतलमूर्मिसंघटनेन शीतलं स्वनिःश्वासमनुकर्तुं शीलमस्येति स्वनिःश्वासानुकारिणम्। एतेन तयोरुत्कृष्टस्त्रीपुंसजातीयत्वमुक्तम्। अरविन्दानामामोदमुपजिघ्रन्तौ घ्राणेन गृह्णन्तौो ॥

Verse 44
ग्रामेष्वात्मविसृष्टेषु यूपचिह्नेषु यज्वनाम् । अमोघाः प्रतिगृह्णन्तावर्ध्यानुपदमाशिषः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): ग्रामेष्विति॥ आत्मविसृष्टेषु स्वदत्तेषु। यूपो नाम संस्कृतः पशुबन्धाय दारुविशेषः। यूपा एव चिह्नानि येषां तेषु ग्रामेष्वमोघाः सफला यज्वनां विधिनेष्टवताम्। `यज्वा तु विधिनेष्टवान्` इत्यमरः (अ.को.2|7|10)। `सुयजोर्ड्वनिप्` (पा.3।2।103) इति ङ्वनिप्र्रत्ययः। आशिष आशीर्वादान्। अर्घः पूजाविधिः, तदर्थं द्रव्यमर्ध्यम्। `पादार्धाभ्यां च` (पा.5।4।25) इति यत्प्रत्ययः। `षट् तु त्रिष्वर्ध्यमर्घार्थे पाद्यं पादाय वारिणि` इत्यमरः (अ.को.2|7|10)। अर्ध्यस्यानुपदन्वक्। अर्ध्यस्वीकारानन्तरमित्यर्थथः। प्रतिगृह्णन्तौ स्वीकुर्वन्तौ पदस्य पश्चादनुपदम्। पश्चादर्थेऽव्ययीभावः। `अन्वगन्वक्षमनुगेऽनुपदं क्लीबमव्ययम्` इत्यमरः (अ.को.3|1|77) ॥

Verse 45
हैयंगवीनमादाय घोषवृद्धानुपस्थितान् । नामधेयानि पृच्छन्तौ वन्यानां मार्गशाखिनाम् ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): हैयंगवीनमिति॥ ह्यस्तनगोदोहोद्भवं घृतं हैयंगवीनम्। ह्यः पूर्वेद्युर्भवम्। `तत्तु हैयंगवीनं यद्ध्योगोदोहोद्भवं घृतम्` इत्यमरः (अ.को.2|2|21)। `हैयंगवीनं संज्ञायाम्` (पा.2।2।23) इति निपातः। तत्सद्योघृतम्। आदायोपस्थितान्घोषवृद्धान्। `घोष आभीरपल्ली स्यात्` इत्यमरः (अ.को.2|2|21)। वन्यानां मार्गशाखिनां नामधेयानि पृच्छन्तौ। `दुह्याच्-`(वा.1090, 1100) इत्यादिना पृच्छतेर्द्विकर्मकत्वम्। कुलकम्॥

Verse 46
काप्यभिख्या तयोरासीद्व्रजतोः शुद्धवेषयोः । हिमनिर्मुक्तयोर्योगे चित्राचन्द्रमसोरिव ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): कापीति। व्रजतोर्गच्छतोः शुद्धवेषयोरुज्ज्वलनेपथ्ययोः तयोः सुदक्षिणादिलीपयोः। हिमनिर्मुक्तयोश्चित्राचन्द्रमसोरिव। योगे सति काप्यनिर्वाच्याऽभिख्या शोभाऽ।ञसीत्। `अभिख्या नामशोभयोः` इत्यमरः (अ.को.3|3|164)। `आतश्चोपसर्गे` (पा.3।3।106) इत्यङ्प्रत्ययः। चित्रा नक्षत्रविशेषः। शिशिरापगमे चैत्र्यां चित्रापूर्णचन्द्रमसोरिवेत्यर्थः ॥

Verse 47
तत्तद्भूमिपतिः पत्न्यै दर्शयन्प्रियदर्शनः । अपि लङ्घितमध्वानं बुबुधे न बुधोपमः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): तत्तदिति॥ प्रियं दर्शनं स्वकर्मकं यस्यासौ प्रियदर्शनः। दर्शनीय इत्यर्थः। भूमिपतिः पत्न्यै तत्तदद्भुतं वस्तु दर्शयन्, लङ्घितमतिवाहितमप्यध्वानं न बुबुधे न ज्ञातवान्। बुधः सौम्य उपमोपमानं यस्येति विग्रहः । इदं विशेषणं तत्तद्दर्शयन्नित्युपयोगितयैतस्य ज्ञातृत्वसूचनार्थम् ॥

Verse 48
स दुष्प्रापयशाः प्रापदाश्रमं श्रान्तवाहनः । सायं संयमिनस्तस्य महर्षेर्महिषीसखः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ दुष्प्रापयशा दुष्प्रापमन्यदुर्लभं यशो यस्य स तथोक्तः। श्रान्तवाहनो दूरोपगमनात्क्लान्तयुग्यः। महिष्याः सखा महिषीसखः। `राजाहःसखिभ्यष्टच` (पा.5।4।91)इति टच्प्रत्ययः। सहायान्तरनिरपेक्ष इति भावः। स राजा सायं सायंकाले संयमिनो नियमवतस्तस्य महर्षेर्वसिष्ठस्याश्रमं प्रापत् प्राप। पुषादित्वादङ् ॥

Verse 49
वनान्तरादुपावृत्तैः समित्कुशफलाहरैः । पूर्यमाणमदृश्याग्रिप्रत्युद्यातैस्तपस्विभिः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): वनान्तरादिति॥ वनान्तरादन्यस्माद्वनात् उपावृत्तैः प्रत्यागतैः। समिधश्च कुशांश्च फलानि चाहर्तुं शीलं येषामिति समित्कुशफलाहराः, तैः। `आङिताच्छील्ये` (पा.3।2।11) इति हरतेराङ्पूर्वादच्प्रत्ययः। अदृश्यैर्दर्शनायोग्यैरग्निभिर्वैतानिकैः प्रत्युद्याताः प्रत्युद्गताः। तैस्तपस्विभिः पूर्यमाणम्। `प्रोष्यागच्छतामाहिताग्नीनामग्नयः प्रत्युद्यान्ति` इति श्रुतेः। यथाह-`कामं पितरं प्रोषितवन्तं पुत्राः प्रत्याधावन्ति, एव ह वा एवमेतग्नयः प्रत्याधावन्ति सशकलान्दारूनिवाहरन्` इति॥

Verse 50
आकीर्णऋषिपत्नीनामुटजद्वाररोधिभिः । अपत्यैरिव नीवारभागधेयोचितैर्मृगैः ॥
Metre: अनुष्टुप्
सञ्जीविनीटीका (मल्लिनाथः): आकीर्णमिति॥ नीवाराणां भाग एव भागधेयोंऽशः। `रूपनामभागेभ्यो धेयप्रत्ययो वक्तव्यः`(वा.3330) इति वक्तव्यसूत्रात्स्वाभिधेये धेयप्रत्ययः, तस्योचितैः। अत एव, घटजानां पर्णशालानां द्वाररोधिभिर्द्वाररोधकैर्मृगैः। ऋषिपत्नीनामपत्यैरिव आकीर्णं व्याप्तम् ॥

Showing 41 to 50 of 1569 verses