मेघदूतम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

मेघदूतम्

Disable Parallel


Showing 41 to 50 of 111 verses
Verse 41
तस्याः किं चित्करधृतमिव प्राप्तवानीरशाखं हृत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादः पुलिनजघनां को विहातुं समर्थः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्या गम्भीराया नीलं मलिनमेव वसनमम्बरं पानवशाद्धृत्वापास्य तव लम्बमानस्य जलभरमन्थरत्वात्तचेव तिष्ठतः प्रस्थानं कथमपि भावि प्रयाणं कथमपि भविष्यति । यम्माद्यो ज्ञातास्वादोऽमुभूतरसः स पुनिमजघनां तीरपृथुनितम्बां युवतिं कस्त्यक्तुं समर्थः । त्वं च पानी यपानाद्विदितास्वादः । सापि पुलिनमेव जघनं यस्याः सा पुलिनजघना । कीदृशं सलिलवसनम् । प्राप्तं लब्धवद्वानीरशाखा वेतसीलताः । वानीरशाखाश्लिष्टमित्यर्थः । प्राप्तापन्ने च दितीयया । यदि वा प्राप्ता वानीरशाखा येनेति बहुव्रीहिः । अतश्चोत्प्रेक्षते । करधृतमिव हस्तावष्टब्धं यथा । अंशुकं हरतो हि कामिनो नार्यः कराभ्यां रुन्धन्ति । नीलं हरितम् । ग्रीष्मेऽल्पत्वात् । अतश्च हरणान्मुक्तमुत्सृष्टं रोधस्तीरमेव नितम्बो येन । यदप्यम्बरं ह्रियते तन्मुक्तनितम्बं भवति । भविष्यतीति भावि॥

Verse 42
त्वन्निष्यन्दोच्छ्वसितवसुधागन्धसंपर्कपुण्यः स्रोतोरन्ध्रध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततो देवगिरिमुपजिगमिषोर्यियासोस्तव सतुषारः पवनो नीचैर्वास्यति मन्थरं गमिष्यति । कीदृशः । तव निष्यन्देन तोयमोक्षणोच्छ्वसिता विकसिता हृषिता यासौ वसुधा भूमिस्तस्या गन्धसंपर्केण सौरभव्यतिकरेण पुण्यो मनोज्ञः । तथा सौख्याद्दन्तिभिः पीयमानः । कथम् । स्रोतोरन्ध्रं करविवरं तस्य ध्वनितं शूत्कारस्तेन सुभगं रम्यम् । सशूस्कृतमित्यर्थः । मुषिरे हि वातप्रवेशादधिको ध्वनिर्भवति । स्रोतः करः करिणः । यथा । प्रासप्रोतसोतसान्तःक्षतेनेति माघस्य । तथा कानमे वन उदुम्बरफलानां परिणमयिता पाचयिता । तद्वशात्पाकोत्पत्तेः ॥

Verse 43
तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूनामत्यादित्यं हुतवहमुखे संभृतं तद्द्हि तेजः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तत्र देवगिरौ सदासंनिहितं कुमारं त्वं सुरसरिदुदकरसैः कुसुमवर्षैः पुष्पमेघीकृतात्मत्वात्स्नपयेः पूजयेः । यस्माद्वासवीनां चमूनामैन्द्रीणां सेनानां रक्षार्थं नवशशिभृता चन्द्रमौलिनात्यादित्यं सूर्यादप्यधिकं तत्तेजो वीर्यं संभृतं क्षिप्तम् । असुरोपद्रुतसुररक्षार्थं हि कार्तिकेयो हरेण गौर्यां जनित इत्यागमः । तच्च शुक्रं स्वस्थानचलितमग्निना पीतमभूत् । वासवीनामिति दुर्लभः प्रयोगः । वृद्धाच्छेनाणो बाधितत्वात् । अतिक्रान्त आदित्यो येन तदत्यादित्यम् ॥

Verse 44
ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रीत्या कुवलयपदप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: पश्चादनन्तरं पावकेः स्कन्दस्य तं वाहनं मयूरं गर्जितैर्नर्तयेथा लास्यं कारयेथाः । जलदरवनिशमनाद्धि बर्हिणो नृत्यन्ति । तमित्युक्तम् । कं तमित्याह । यस्य गलितं भ्रष्टं बर्हं पक्षं गौरी पुत्रप्रीत्या कर्णे करोत्यवतंसीकुरुते । तच्च कुवलयपदप्राप्युत्पलस्थानारूढम् । ज्योतिर्लेखावलयं तेजोराजिमण्डलं विद्यते यस्य तत्तथोक्तम् । हरशशिरुचा शिवशिरश्चन्द्रश्चन्द्रिकया धौतापाङ्गं क्षालितनेत्रान्तम् । गर्जितैः कीदृशैः । अद्रिग्रहणगुरुभिः पर्वतप्राप्तिपीवरैः । अद्रिग्रहणशब्दे न कर्तृपष्ठीसमासः । नर्तयेथा इति न पादमीत्यादिनात्मनेपदम् ॥

Verse 45
आराध्यैवं शरवणभुवं देवमुल्लङ्घिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन्स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: शरवणभुवं कुमारमेवं पुष्पासारैः स्नपनादिप्रकारेणाराध्य किंचिच्चाध्वानमतिक्रम्य रन्तिदेवम्य राज्ञः कीर्तिं चर्मण्वत्याख्यां मानयिष्यन्पूजयितुं व्यालम्बेथाः श्रयेथा गच्छेः । कीदृशीम् । सुरभितनया गावस्तासामालम्भनं प्रोक्षणं ततो जाता प्रसूता भुवि च स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपान्तरं गताम् । तेन हि नृपेण क्रतुष्वतिबृंहीयस्यो गावः संक्षापिता यासं रुधिराच्चर्मभ्यश्च चर्मण्वती सम्पन्नेत्यागमः । त्वं कीदृशः । सिद्धमिथुनस्तोयबिन्दुत्रासान्मुक्तमार्गः परिहृतपथः । यतो वीणिभिर्वल्लकीहस्तैः । तन्त्रीर्हि' जलार्द्रा विस्वरा भवति । अपरासाद्य वीर्यं सोढुमक्षमया गङ्गया शरवणे त्यक्तमित्यतः शरजत्वं स्कन्दस्य । प्रतिरन्तःशरेक्षुप्लक्षेत्यादिना णत्वम् ॥

Verse 46
त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो दूरमावर्ज्य दृष्टीरेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: त्वयि तोयं ग्रहीतुमवनते लम्बमाने सति तस्याः मिन्धोश्चर्मण्वत्याः प्रवाहं सिताख्या नभश्चराश्चक्षूंषि दूरमत्यर्थमावर्ज्य निक्षिप्य कौतुकाद्द्रक्ष्यन्ति । यतो भुवः स्थूलमध्येन्द्रनीलमेकं मुक्तागुणं मौक्तिकदामेव । स्रोतसो मुक्तागुणनिभत्वादम्बुदस्य च महानीलतुल्यत्वात् । कीदृशं प्रवाहम् । पृथुमपि तनुं विस्तीमपि स्वल्पम् । कुतः । दूरभावाद्विप्रकर्षात् । दूराद्धि महदपि स्वल्पं दृश्यते । अत एव मुक्तागुणसारूप्यम् । त्वयि कीदृशे । सजलत्वात्कृष्णस्य वर्णचौरे नीले । एतेनेन्द्रनीलनिभत्वमुक्तम् ॥

Verse 47
तामुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकरश्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तां चर्मण्वतीमतीत्य दशपुराख्ये नगरे युवतिनयनकौतुकानामात्मानं पात्रीकुर्वस्तासां नेत्रविषयं नयनन्गच्छेः । दशपुरनिकटेन याया यथा तन्नागरिकास्त्वामीक्षेरन्नित्यर्थः । कीदृशानाम् । नागरिकत्वात्परिचिता अभ्यस्ता भ्रूशाखाविलासा येषाम् । तथा त्वदालोकनवशात्पक्ष्मोत्क्षेपेणोपरि विलसन्ती स्फुरन्ती कृपणशारप्रभा येषाम् । अतश्च कुन्दकुसुमस्य यः क्षेपः प्रेरणां तस्यानुगा अनुयायिनो ये भ्रमरास्तेषां श्रियं शोभां मुष्णन्ति यानि तेषाम् । कुन्दानां मितत्वादलीनां च कालत्वात् । यद्यपि कौतूहलविशेषणान्येतानि तथापि वस्तुबलात्तद्वत्तां नेत्राणामिवैते गुणाः ॥

Verse 48
ब्रह्मावर्तं जनपदमधश्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां शितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: ततो ब्रह्मावर्ताख्यं जनपदमधश्छायया प्रतिबिम्बेन संस्पृशंस्तत्कुरुक्षेत्रं यायाः । कीदृशम् । क्षत्रप्रधनपिशुनं राजन्यकसमरसूचकम् । अद्यापि शरशकलाद्यालोकनात् । यत्र च क्षत्रियाणां तीक्ष्णशरशतैरर्जुनो वदनान्यभ्यषिञ्जत्संधुक्षयामास निर्भरीचकार । भवानिव जलवृष्टिभिर्नलिनानीति शरबाहुल्यकथनम् ॥

Verse 49
हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सोम्य सारस्वतीनामन्तःस्वच्छस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: हे सोम्य दर्शनीयं तासां सरस्वतीसम्बन्धिनीनामपामभिगमं सेवनं विधाय निश्चेतनस्त्वमप्यन्तःस्वच्छोऽभ्यन्तरनिर्मलो भविता भविष्यसि । केवलं वर्णमात्रेण कृष्णः काल इति महा[अस्पष्टं मुद्रणम्]पुण्यत्वोक्तिः । अथ च वस्तुस्वभाव एवैष यन्मेघानां पानीयपानाद्बहिःकृष्णत्वमिति । तामामित्युक्तम् । कामामित्याह । या अपो लाङ्गलो हलधरो हालां मुरां हित्वोपेक्ष्य सिषेवे भेजे । बन्धूनां कुरुपाण्डवानां प्रीत्या वेसुख्यरक्षया । स हि तैर्योद्धुमर्थितः । द्वयेऽपि मे बान्धवाः । तत्कुत्र व्रजामीति विचार्य वेश्म त्याक्त्वा सारस्वततीर्थयात्रामकरोत् । हालात्यागेन नियमग्रहणं तीर्थसेवने प्रतिपादयति । कीदृशीं हालाम् । अभिमतरसामिष्टास्वादाम् । स हि सुराप्रियः । रेवती तद्भार्या । तस्या लोचने एवाङ्कश्चिह्नं प्रतिविम्बवशाद्यस्याः । भवितेति तृजन्तः । स हि कालसामान्ये । सोम व सोम्यः । शाखादिभ्यो यत् ॥

Verse 50
तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नोः कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥
Metre: मन्दाक्रान्ता
वल्लभदेवः: तस्मात्सरस्वतीदेशादनकनखलं कनखलाख्यतीर्थ समोपे हिमवतः प्रभृतां जाह्नवीं यायाः । कीदृशीम । सगरात्मजानां यष्टिसहस्रसंख्यानां स्वर्गार्थं सोपानपङ्क्तिं निःश्रेणिमालाम् । तत्प्राप्तापायत्वात् । ते हि पाताले कपिलेन रोषाद्दग्धा भगीरथावतारितया भागीरथ्याप्लावितभस्मानस्त्रिदिवमापुः । या च देवी भुवमवतरन्ती गौरीवक्त्रभ्रुकुटिरचनां दिण्डीरैरवहस्येव सपत्नीव शंभोः केशग्रहणमकरोदिति युवतिधर्मारोपः । इन्दौ लग्ना ऊर्मय एव हस्ता यस्याः सा । करेण हि केशाकर्षणं क्रियते । मत्संनिधावेवानया केशा गृह्यन्त इति गौर्या भ्रुकुटिबन्धः । केशेषु धारणाद्गङ्गायाः केशग्राहित्वम् । सा हि स्वर्गात्पतन्ती हरेण जटाग्रे धृतेत्यागमः । भ्रूकुटिवद्भ्रुकुटिशब्दः संयोगादिरप्यस्तीति न वृत्तभङ्गः ॥

Showing 41 to 50 of 111 verses