यावन्मूर्ध्नि हिमांशुकन्दलभृति स्वर्वहिनी धूर्जटे— र्यावद् वक्षसि कौस्तुभस्तबकिते पद्मा मुरद्वेषिणः।
यावच्चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात् तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम्॥ ७१॥
इति श्रीमहाराजाधिराजश्रीभोजदेवविरचिते श्रृङ्गारप्रकशे सम्भोगावस्थाप्रकाशोनाम
॥ षट्त्रिंशः प्रकाशः॥ ३६॥
इति सनातनकविश्रीरेवाप्रसादद्विवेदिसम्पादितः श्रृङ्गारप्रकाशो नाम साहित्यप्रकाशः पूर्णः।
कर्णावतंसोत्पलतां जगाहे साहित्यशास्त्रेऽत्र धिगन्य एव।
प्रकाश एषोऽद्य वगाहतां तच्चित्कोष—श्रृङ्गारसमाधि—योगम्॥
सनातनो वस्तुनि केवलेऽस्ति श्राद्धोऽसकौ, भावकपिब्दतासु।
धत्ते धियं श्रीजुषि विश्वनाथे वाराङ्गनाचामर—वीजनस्य॥