यथाऽप्रतापो नृपतिरश्रृङ्गारस्तथा पुमान्॥ ६६॥
यथेन्दुना निशा भाति निशाभिश्च यथा शशी।
अङ्गनाभिश्च श्रृङ्गारः श्रृङ्गारेण तथाङ्गना॥ ६७॥
यथा तडिदनम्भोदा पयोदस्तडितं विना।
अहंकृतिरश्रृङ्गारा श्रृङ्गाराच्चा/रश्चानहङ्कृतिः॥ ६८॥
रसः श्रङ्गार एवैको भावा रत्यादयो मताः।
प्रकर्षगामिनोऽपीह प्रेमग्लानिश्रमादिवत्॥ ६९॥
इति निगदित—भङ्ग्याऽनङ्ग—सर्वस्वमेतद् द्विविधमपि मनोभिर्भावयन्तोऽस्य भेदम्।
तदनुभव—समुत्थानन्द—संमीलिताक्षाः परिषदि परितोषं हन्त सन्तः प्रयान्तु॥ ७०॥