(यदि देव त्वं प्रसन्नो मा कार्षीः मम मानुषं जन्म।
तत् प्रेम, अथ प्रेम तज्जने दुर्लभे॥)
अनवरतपाकं कपित्थपाकं, यथा—(गास. ९१०वे.)
सोत्तुं सुहं ण लंभइ अंबो पेम्मेण पेम्मस्य वंकविसमस्स।
दुग्घडिअ—मंचअस्स व खणे खणे पाअपडणेण॥ ६१॥
(स्वप्तुं सुखं न लभ्यते अहो प्रेम्णा वक्रविषमस्य।
दुर्घटितमञ्चकस्येव क्षणे क्षणे पादपतनेन॥)
यथोत्तरस्वादु क्रमुकपाकं, यथा—
वोदलंति हिअअं चिरआल—परूढ—गरुअ—वीसंभा।
तमसोसरंत सब्भावदारुणा पेम्मपरिणामा॥ ६२॥