पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Disable Parallel


Showing 2791 to 2800 of 2815 verses
सोऽब्रवीत्—

कथा १३ भारुण्ड-पक्षि-कथा

कस्मिंश्चित्सरोवरे भारुण्ड-नामा पक्षी एकोदरः पृथग्-ग्रीवः प्रतिवसति स्म । तेन च समुद्र-तीरे परिभ्रमता कञ्चित्फलममृत-कल्पं तरङ्ग-क्षिप्तं सम्प्राप्तम् । सोऽपि भक्षयन्निदमाह-अहो ! बहूनि मयामृत-प्रायाणि समुद्र-कल्लोलाहृतानि फलानि भक्षितानि । परमपूर्वोऽस्यास्वादः । तत्किं पारिजात-हरिचन्दन-तरु-सम्भवम् ? किं वा, किञ्चिदमृत-मय-फलमिदमव्यक्तेनापि विधिनापातितम् ।

एवं तस्य ब्रुवतो द्वितीय-मुखेनाभिहितम्-भो, यद्येवं तन्ममापि स्तोकं प्रयच्छ, येनाहमपि जिह्वा-सौख्यमनुभवामि ।

ततो विहस्य प्रथम-वक्त्रेणाभिहितम्-आवयोस्तावदेकमुदरम् । एका तृप्तिश्च भवति । ततः किं पृथग्भक्षितेन ? वरमनेन शेषेण प्रिया तोष्यते ।

एवमभिधाय तेन शेषं भारुण्ड्याः प्रदत्तम् । सापि तदास्वाद्य प्रहृष्टतमालिङ्गन-चुम्बन-सम्भावनाद्य्-अनेक-चाटु-परा च बभूव । द्वितीयं मुखं तद्-दिनादेव प्रभृति सोद्वेगं स-विषादं च तिष्ठति ।

अथान्येद्युर्द्वितीय-मुखेन विष-फलं प्राप्तम् । तद्दृष्ट्वापरमाह-भो निस्त्रिंश ! पुरुषाधम ! निरपेक्ष ! मया विष-फलमासादितम् । तत्तवापमानाद्भक्षयामि ।

अपरेणाभिहितम्-मूर्ख ! मा मैवं कुरु । एवं कृते द्वयोरपि विनाशो भविष्यति । अथैवं वदता तेनापमानेन तत्फलं भक्षितम् । किं बहुना, द्वावपि विनष्टौ ।

अतोऽहं ब्रवीमि-एकोदराः पृथग्-ग्रीवाः (९२)इति ।

चक्रधर आह—सत्यमेतत् । तद्गच्छ गृहम् । परमेकाकिना न गन्तव्यम् । उक्तं च—