नैषधीयचरितम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

नैषधीयचरितम्

Disable Parallel


Showing 2751 to 2760 of 2826 verses
Verse 80
रुद्रेषुविद्रावितमार्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत् । मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः ॥
Metre: इन्द्रवज्रा

Verse 81
पृष्ठेऽपि किं तिष्ठति नाथ रङ्कुर्विधोरङ्क इवेति शङ्का । तत्त्वाय तिष्ठस्व मुखे स्व एवं यद्द्वैरथे पृष्ठमपश्यदस्य ॥
Metre: इन्द्रवज्रा

Verse 82
उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कमाह । तेनाधिकं देवगवेष्वपि स्यां श्रद्धालुरुत्तानगतौ शृउतायाम् ॥
Metre: इन्द्रवज्रा

Verse 83
दूरस्थितैर्वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत् । शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः ॥
Metre: उपजातिः

Verse 84
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः । शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगीति नोक्तः ॥
Metre: उपजातिः

Verse 85
यावन्तमिन्दुं प्रतिपत्प्रसूते प्रासावि तावानयमब्धिनापि । तत्कालमीशेन धृतस्य मूर्ध्नि विधोरणीयस्त्वमिहास्ति लिङ्गम् ॥
Metre: उपजातिः

Verse 86
आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे । तत्संवदत्यङ्कमृगस्य नाभिकस्तूरिक्रा सौरभवासनाभिः ॥
Metre: उपजातिः

Verse 87
आसीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्तथोऽभूत् । स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदशावशेषः ॥
Metre: उपजातिः

Verse 88
असावसाम्याद्वितनोः सखा नो कर्पूरमिन्दुः खलु तस्य मित्रम् । दग्धौ हि तौ द्वावपि पूर्वरूपाद्यद्वीर्यवत्तामधिकां दधाते ॥
Metre: उपजातिः

Verse 89
स्थाने विधोर्वा मदनस्य सख्यं स शंभुनेत्रे ज्वलति प्रलीनः । अयं लयं गच्छति दर्शभाजि भास्वन्मये चक्षुषि चादिपुंसः ॥
Metre: उपजातिः

Showing 2751 to 2760 of 2826 verses