कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Disable Parallel


Showing 261 to 268 of 268 verses
अथ मया विदिताभिप्रायया ‘ आज्ञापय ’ इति विज्ञापिते, निजावयवैरपि वेपथुमद्भिर्निवार्यमाणेव, रहस्यश्रवणलज्जयात्मप्रतिमामपि लिखितमणिकुट्टिमेन चरणाङ्गष्ठेनापक्रमायेवामृशन्ती, वनदेवताश्रवणशङ्कितेव मुहुर्मुहुरितस्ततो विलोकयन्ती, वक्तुकामापि न शक्नोति स्म किञ्चिदपि लज्जाकलितगद्गदा गदितुम् । केवलं दुःखसहस्रगणनाय मुक्ताक्षमालिकामिव कल्पयन्ती गलद्भिरस्पृष्टकपोलस्थलैः शुचिभिरधोमुखी नयनजलबिन्दुभिर्दुर्दिनमदर्शयत् । तदा च तस्याः सकाशादशिक्षतेव लज्जापि लज्जालीलाम्, विनयोऽपि विनयातिशयम्, मुग्धतापि मुग्धताम्, वैदग्ध्यमपि वैदग्ध्यम्, भयमपि भीरुताम्, विलासोऽपि विलासम् । तथाभूता च ‘ देवि, किमिदम् ’ इति विज्ञापिता मया, प्रमृज्य लोहितायमानोदरे लोचने, वेदिकाकुसुमपालिकाग्रथितकुसुममालाम् अवलम्ब्य, समुन्नतैकभ्रूलता मृत्युमार्गमिवालोकयन्ती, दीर्घमुष्णं च निःश्वसितवती । तद्दुःखकारणमुप्रेक्षमाणया च कथनाय पुनः पुनरनुवध्यमाना मया, व्रीडया नखमुखलिखितकेतकीदला लिखित्वेव वक्तव्यमर्पयन्ती, विवक्षास्फुरिताधरा क्षिततलनिहितनिश्चलनयना सुचिरमतिष्ठत् ॥

क्रमेण च भूयो मन्मुखे निधाय दृष्टिम्, कथमपि व्याहाराभिमुखमात्मानमकरोत् । अब्रवीच्च माम् — ‘ पत्रलेखे, वल्लभतया तस्मिन्स्थाने न तातः, नाम्बा, न महाश्वेता, न मदलेखा, न जीवितम्, यत्र मे भवती । दर्शनात्प्रभृति प्रियासि । न जाने, केनापि कारणेनापहस्तितसकलसखीजनं त्वयि विश्वसिति मे हृदयम् । कमपरमुपालभे । कस्य वान्यस्य कथयामि परिभवम् । केन वान्येन सह साधारणीकरोमि दुःखम् । दुःखभारमिममसह्यं निवेद्य भवत्यास्त्यक्ष्यामि जीवितम् । जीवितेनैव शपामि ते । स्वहृदयेनापि विदितवृत्तान्तेनामुना जिह्रेमि, किमुतापरहृदयेन । कथमिव मादृशी रजनिकरकिरणावदातं कौलीनेन कुलं कलङ्कयिष्यति । कुलक्रमागतां च लज्जांं परित्यक्ष्यति । अकन्यकोचिते वा चापले चेतः प्रवर्तयिष्यति । साहं न सङ्कल्पिता पित्रा । न दत्ता मात्रा । नानुमोदिता गुरुभिः । न किञ्चित् सन्दिशामि । न किंचित्प्रेषयामि । नाकारं दर्शयामि । कातरेवानाथेव बलादवलिप्तेन गुरुगर्हणीयतां नीता कुमारेण चन्द्रापीडेन । कथय, महतां किमयमाचारः ? किं परिचयस्येदं फलम् ? यदेवम् अभिनवबिसकिसलयतन्तुसुकुमारं मे मनः परिभूयते । अपरिभवनीयो हि कुमारिकाजनो यूनाम् । प्रायेण प्रथमं मदनानलो लज्जां दहति, ततो हृदयम् । आदौ विनयादिकं कुसुमेषुशराः खण्डयन्ति, पश्चान्मर्माणि। तदामन्त्रये भवतीं पुनर्जन्मान्तरसमागमाय । न हि मे त्वत्तोऽन्या प्रियतरा । प्राणपरित्यागप्रायश्चित्ताचरणेन प्रक्षालयाम्यात्मनः कलङ्कम् ’ इत्यभिधाय तूष्णीमभूत् ॥

अहं तु यत्सत्यमनिदितवृत्तान्ततया ह्रीतेव भीतेव विलक्षेव विसंज्ञेव सविषादं विज्ञापितवती — ‘ देवि, श्रोतुमिच्छामि । आज्ञापय — किं कृतं देवेन चन्द्रापीडेन । को वापराधः समजनि । केन वा खल्वविनयेन खेदितमखेदनीयं देव्याः कुमुदकोमलं मनः । श्रुत्वा प्रथममुत्सृष्टजीवितायां मयि, पश्चात्समुत्स्रक्ष्यसि जीवितम् ’ इत्येवमभिहिता च पुनरवदत् — ‘ आवेदयामि ते । अवहिता शृणु । स्वप्नेषु प्रतिदिवसमागत्यागत्य मे रहस्यसंदेशेषु निपुणधूर्तः पञ्जरशुकशारिका दूतीः करोति । सुप्तायाः श्रवणदन्तपत्रोदरेषु व्यर्थमनोरथमोहितमानसः सङ्केतस्थानानि लिखति । उपवनेष्वेकाकिन्या ग्रहणभयपलायमानायाः पल्लवलग्नांशुकदशाप्रतिहतगमनाया मिथ्याप्रगल्भः पराङ्मुख्याः परिष्वङ्गमाचरति । शीतलैर्मुखमरुद्भिः श्रमजलशीकरतारकितावलीकचाटुकारः कपोलौ वीजयति । भवनाशोकताडनोद्यतान्पादप्रहारान्दुर्बुद्धिविडम्बितः शिरसा प्रतीच्छति । मन्मथमूढमानसश्च कथय, हे पत्रलेखे, केन प्रकारेण निश्चेतनो निषिध्यते। प्रत्याख्यानमपीर्ष्यां संभावयति । आक्रोशमपि परिहासमाकलयति । असंभाषणमपि मानं मन्यते । दोषसंकीर्तनमपि स्मरणोपायमवगच्छति । अवज्ञानमप्यनियन्त्रणप्रणयमुत्प्रेक्षते । लोकापवादमपि यशो गणयति ’ इति ॥

तामेवंवादिनीमाकर्ण्य, प्रहर्षरसनिर्भरा विहस्याब्रवम् — ‘ देवि, यद्येवम्, उत्सृज कोपम् । प्रसीद । नार्हसि कामापराधैर्देवं दूषयितुम् । एतानि खलु कुसुमचापस्य चापलानि शठस्य न देवस्य ’ इत्येवमुक्तवती मां पुनः सकुतूहला सा प्रत्यभाषत — ‘ योऽयं काम:, कोऽपि वा, कथय, कानि कान्यस्य रूपाणि ’ इति । तामहं व्यजिज्ञपम् — ‘ देवि, कुतोऽस्य रूपम्। अतनुरेष हुताशनः । तथा हि — अप्रकाशयन् ज्वालावली: संतापं जनयति। अप्रकटयन् धूमपटलमश्रु पातयति । न च तद्भतमेतावति त्रिभुवने, अस्य शरशरव्यां यन्न यातं याति यास्यति वा । को वास्य भ्रश्यति । गृहीतकुसुमकार्मुको बाणैर्बलवन्तमपि विध्यति । अपि चानेनाधिष्ठितानां कामिनीनां पश्यन्तीनां चिन्तया प्रियमुखचन्द्रसहस्राणि, सङ्कटमम्बरतलम् ; लिखन्तीनां दयिताकारान् ,अविस्तीर्णं महीमण्डलम् ; गणयन्तीनां वल्लभगुणान्, अल्पीयसी संख्या ; शृण्वतीनां प्रियकथाम्, अबहुभाषिणी सरस्वती ; ध्यायन्तीनां प्राणसमसमागमशतानि, ह्रसीयान् कालो हृदयस्यापतति ’ इति ॥

एतदाकर्ण्य च, क्षणं विचिन्त्य, प्रत्यवादीत् — ‘ पत्रलेखे, यथा कथयसि, तथा जनोऽयं कारितः कुमारे पक्षपातं पञ्चेषुणा । यान्यस्यैतानि रूपाणि, समधिकानि वा, तानि मयि वर्तन्ते । हृदयादव्यतिरिक्तासि । इदानी भवतीमेव पृच्छामि । उपदिश त्वम्, यदत्र मे साम्प्रतम् । एवंविधानां वृत्तान्तानामनभिज्ञास्मि । अपि च, मे गुरुजनवक्तव्यतां नीताया नितरां लज्जिताया जीवितान्मरणमेव श्रेयः पश्यति हृदयम् ’ इति ॥

एवंवादिनीं भूयस्तामहमेवमोचम् — ‘ अलमलमिदानीं देवि, किमनेन अकारणमरणानुबन्धेन । अनाराधितप्रसन्नकुसुमशरेण भगवता ते वरो दत्तः । का चात्र गुरुजनवक्तव्यता ? यदा खलु कन्यकां गुरुरिव पञ्चशरः सङ्कल्पयति, मातेवानुमोदते, पितेव ददाति, सखीवोत्कण्ठां जनयति, धात्रीव तरुणतायां रत्युपचारं शिक्षयति । कति वा कथयामि ते, याः स्वयं वृतवत्यः पतीन् । यदि च नैवम्, अनर्थक एव तर्हि धर्मशास्त्रोपदिष्टः स्वयंवरविधिः । तत्प्रसीद । देवि, अलममुना मरणानुबन्धेन । शपे ते पादपङ्कजस्पर्शन । सन्दिश, प्रेषय माम् । यामि, आनयामि देवि, ते हृदयदयितम् ’ इति ॥

एवमुक्ते मया प्रीतिद्रवार्द्रया दृष्ट्या पिबन्तीव मां प्रहर्षविह्वलान्तःकरणापि कन्यकाजनसहजां लज्जामिवावलम्ब्य शनैरवदत् — ‘ जानामि ते गरीयसी प्रीतिम् । केवलमकठोरशिरीषपुष्पमृदुप्रकृतेः कुतः प्रागल्भ्यमेतावन्नारीजनस्य, विशेषतो बालभावभाजः कुमारीलोकस्य । मन्ये साहसकारिण्यस्ताः, याः स्वयं सन्दिशन्ति समुपसर्पन्ति वा । स्वयं साहसं सन्दिशन्ती बाला जिह्रेमि । किं वा सन्दिशामि ? अतिप्रियोऽसीति, पौनरुक्त्यम् । तवाहं प्रियात्मेति, जडप्रश्नः । त्वयि गरीयाननुराग इति, वेश्यालापः । त्वया विना न जीवामीति, अनुभवविरोधः । अवश्यमागन्तव्यमिति, सौभाग्यगर्वः । स्वयमागच्छामीति, स्त्रीचापलम् । अनन्यरक्तोऽयं परिजन इति, स्वभक्तिनिवेदनलाघवम् । प्रत्याख्यानशङ्कया न संदिशामीति अप्रबुद्धबोधनम् । ज्ञास्यसि मरणेन प्रीतिमिति, असंभाव्यमेव ॥

॥ इति कादम्बरीसंग्रहे पूर्वभागः समाप्तः ॥

Showing 261 to 268 of 268 verses