शोकश्चेत्कोकयोस्त्वां सुदति तुदति तद्व्याहराज्ञाकरस्ते गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम् । बद्धे मय्यञ्जलावप्यनुनयविमुखः स्यान्ममैकग्रहोऽयं दत्त्वैवाभ्यां तदम्भोञ्जलिमिह भवतीं पश्य मामेष्यमाणम् ॥
Metre: स्रग्धरा
तदानन्दाय त्वत्परिहसितकन्दाय भवती निजालीनां लीनां स्थितिमिह मुहूर्तं मृगयताम् । इतिव्याजात्कृत्वालिषु चलितचित्तां सहचरीं स्वयं सोयं सायंतनविधिविधित्सुर्बहिरभूत् ॥
Metre: शिखरिणी
श्रीहर्षं कविराजराजिमुकुटालंकारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् । तस्यागादयमेकविंशगणनाकाव्येऽतिनव्ये कृतौ भैमीभर्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः ॥
Metre: शार्दूलविक्रीडितम्
उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः । अवाप्तवान्सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः ॥
Metre: उपजातिः
प्रत्युद्व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम् । अध्यास्य तामप्यधिवास्य सोऽयं संध्यामुपश्लोकयति स्म सायम् ॥
Metre: इन्द्रवज्रा
विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान् । अक्षालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य ॥
Metre: उपजातिः
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गैरिकगण्डशैलः । तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते ॥
Metre: उपजातिः
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य । यामान्तकूजोल्लसितैः शिखौघैर्दिग्वारुणी द्रागरुणीकृतेयम् ॥
Metre: इन्द्रवज्रा
पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र । निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम् ॥
Metre: उपजातिः
महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम् । तनोति तन्वावियतापि तारश्रेणिस्रजा सांप्रतमङ्ग हारम् ॥
Metre: उपजातिः