प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् ,
सर्वतः कठोरं वायसगणेन च रटता स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः सिराजालकैर्गोधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटव्रणबिन्दुभिः कल्माषितसकलशरीरेण, अम्बिकापादपतनश्यामललाटवर्धमानार्बुदेन, कुवादिदत्तसिद्धाञ्जनस्फुटितैकलोचनतया त्रिकालमितरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, सूचीस्यूतसिरासंकोचितवामकराङ्गुलिना, असम्यक्कृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रमणादिष्टतिलकाबद्धविभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्टिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिकासङ्ग्राहिणा, जीर्णमहापाशुपतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादव्याधिना, सञ्जातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमन्त्रसाधनसङ्ग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,
तदभिमुखश्च किंचिदध्वानं गत्वा,
असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,
अविमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिद्दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैः भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहुबाहुयुद्ध-पातभग्नपृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्प्रधावित-स्खलिताधोमुख-निपातोपल-स्फुटित-शिरः-कपाल-भुग्न-ग्रीवेण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्लेशमपि सर्वावयवज्वलितदीपिकादाहव्रणविभावितं बहुमुखमिव प्रकटयता, शुष्कवनलतानिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन,जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ॥
अथावतीर्य तुरगात्, प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः प्रणम्य, प्रशान्तोद्देशदर्शनकुतूहलेन परिभमन्, उचैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च तेन सार्धं संरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय, क्रमेण जन्मभूमि जाति विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य तच्चरितं विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् ॥
अस्तमुपगते च भगवति सप्तसतौ, क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवताम् अचिन्तयन्महाश्वेताप्रसादानाम् । जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रैक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध चाधिकां प्रीति शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय, तस्य जरद्द्रविडधार्मिकस्येच्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतम्, अभिरमणीयेषु प्रदेशेषु निवसन्, अल्पैरेवाहोभिः उज्जयिनीमाजगाम ॥
आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्राणि प्रतीच्छन्, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितादतिरभसहर्षरसविह्वलात्परिजनात् ‘ द्वारि देव, चन्द्रापीडो वर्तते ’ इत्युपलभ्य, अस्य पिता प्रहर्शनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहस्रैः, चरणाभ्यामेव प्रत्युज्जगाम । दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘ एह्येहि ’ इत्याहूय पित्रा सुचिरं गाढमुपगूढः, तत्कालसन्निहितानां च माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः, कृतागमनमङ्गलाचारः, दिग्विजयसंबद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुम् आययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश एव क्रिया निरवर्तयत् । अपराह्णे निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः, कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तिनगरं सकलमेव महीमण्डलं शून्यम् अमन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ॥
ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत् । उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः, प्रकृतिवल्लभामपि कादम्बरीसकाशात् प्रसादलब्धापरसौभाग्यामिव वल्लभतरताम् उपागताम् उत्थायातिशयदर्शितादरम् आलिलिङ्ग पत्रलेखाम् । मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् — ‘ पत्रलेखे, कथय — तत्रभवत्या महाश्वेतायाः संमदलेखाया देव्याः कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूरकादिः परिजनः?’ इति । साब्रवीत् — ‘ देव, यथाज्ञापयसि, भद्रम् । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी ’ इत्येवमुक्तवतीं पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलमतिप्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य, कस्यचित् पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् — ‘ पत्रलेखे, कथय — कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ठ्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गरीयसी प्रीतिः ? ’ इत्येवं पृष्टा च व्यजिज्ञपत् — ‘ देव,दत्तावधानेन श्रूयताम् — ततः खल्वागते देवे, केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तं दिवसमभवत् । अपराह्णे च मामेवावलम्ब्य, निष्क्रम्य हिमगृहकात्, सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र सुधाधवलां मरकतसोपानमालया प्रमदवनवेदिकाम् अध्यारोहत् । तस्यां च मणिस्थूणावष्टम्भा स्थिता । स्थित्वा च मुहूर्तमिव हृदयेन
सह दीर्घकालमवधार्य, किमपि व्याहर्तुमिच्छन्ती, निश्चलधृततारकेण निस्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ॥