कादम्बरीसंग्रहः - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

कादम्बरीसंग्रहः

Enable Parallel


Showing 251 to 260 of 268 verses
प्रलम्बकूर्चधरैश्छागैरपि धृतव्रतैरिव कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव ज्वलितलोहितमूर्धरत्नरश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम् ,

सर्वतः कठोरं वायसगणेन च रटता स्तुतिपरेणेव स्तूयमानाम्, स्थूलस्थूलैः सिराजालकैर्गोधागोलिकाकृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैर्गवाक्षितेन, अलक्ष्मीसमुत्खातलक्षणस्थानैरिव विस्फोटव्रणबिन्दुभिः कल्माषितसकलशरीरेण, अम्बिकापादपतनश्यामललाटवर्धमानार्बुदेन, कुवादिदत्तसिद्धाञ्जनस्फुटितैकलोचनतया त्रिकालमितरलोचनाञ्जनदानादरश्लक्ष्णीकृतदारुशलाकेन, प्रत्यहं कटुकालाबुस्वेदप्रारब्धदन्तुरताप्रतीकारेण, कथंचिदस्थानदत्तेष्टकाप्रहारतया शुष्कैकभुजोपशान्तमर्दनव्यसनेन, सूचीस्यूतसिरासंकोचितवामकराङ्गुलिना, असम्यक्कृतरसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधिराज्यवरप्रार्थनाकदर्थितदुर्गेण, दुःशिक्षितश्रमणादिष्टतिलकाबद्धविभवप्रत्याशेन, हरितपत्ररसाङ्गारमषीमलिनशम्बूकवाहिना, पट्टिकालिखितदुर्गास्तोत्रेण, धूमरक्तालक्तकाक्षरतालपत्रकुहकतन्त्रमन्त्रपुस्तिकासङ्ग्राहिणा, जीर्णमहापाशुपतोपदेशलिखितमहाकालमतेन, आविर्भूतनिधिवादव्याधिना, सञ्जातधातुवादवायुना, लग्नासुरविवरप्रवेशपिशाचेन, प्रवृत्तयक्षकन्यकाकामित्वमनोरथव्यामोहेन, वर्धितान्तर्धानमन्त्रसाधनसङ्ग्रहेण, श्रीपर्वताश्चर्यवार्तासहस्राभिज्ञेन, असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,

तदभिमुखश्च किंचिदध्वानं गत्वा,

असकृदभिमन्त्रितसिद्धार्थकप्रहतिप्रधावितैः पिशाचगृहीतकैः करतलताडनचिपिटीकृतश्रवणपुटेन,

अविमुक्तशैवाभिमानेन, दुर्गृहीतालाबुवीणावादनोद्वेजितपथिकपरिहृतेन, दिवसमेव मशकक्वणितानुकारि किमपि कम्पितोत्तमाङ्गं गायता, स्वदेशभाषानिबद्धभागीरथीभक्तिस्तोत्रनर्तकेन, गृहीततुरगब्रह्मचर्यतयान्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः संप्रयुक्तस्त्रीवशीकरणचूर्णेन, अतिरोषणतया कदाचिद्दुर्न्यस्ताष्टपुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैः भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहुबाहुयुद्ध-पातभग्नपृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्प्रधावित-स्खलिताधोमुख-निपातोपल-स्फुटित-शिरः-कपाल-भुग्न-ग्रीवेण, कदाचिज्जनपदकृतनवागतापरधार्मिकादरमत्सरोद्बद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दं मन्दं संचारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया प्रभूताहारिणा, अनेकशः फलपातनकुपितवानरनखोल्लेखच्छिद्रितनासापुटेन, सहस्रशः शयनीकृतासंस्कृतशून्यदेवकुलकालसर्पदष्टेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्तखण्डखट्वारोपितवृद्धदासीविवाहप्राप्तविडम्बनेन, अनेकायतनप्रतिशयितनिष्फलोत्थानेन, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्लेशमपि सर्वावयवज्वलितदीपिकादाहव्रणविभावितं बहुमुखमिव प्रकटयता, शुष्कवनलतानिर्मितबृहत्कुसुमकरण्डकेन, वेणुलतारचितपुष्पपातनाङ्कुशिकेन, क्षणमप्यमुक्तकालकम्बलखण्डखोलेन,जरद्द्रविडधार्मिकेणाधिष्ठितां चण्डिकामपश्यत् । तस्यामेव च वासमरचयत् ॥

अथावतीर्य तुरगात्, प्रविश्य भक्तिप्रवणेन चेतसा तां प्रणनाम । कृतप्रदक्षिणश्च पुनः प्रणम्य, प्रशान्तोद्देशदर्शनकुतूहलेन परिभमन्, उचैरारटन्तमाक्रोशन्तं च कुपितं द्रविडधार्मिकमेकदेशे ददर्श । दृष्ट्वा च कादम्बरीविरहोत्कण्ठोद्वेगदूयमानोऽपि सुचिरं जहास । न्यवारयच्च तेन सार्धं संरब्धकलहानुपहसतः स्वसैनिकान् । उपसान्त्वनैश्च कथमपि प्रियालापशतानुनयैः प्रशममुपनीय, क्रमेण जन्मभूमि जाति विद्यां च कलत्रमपत्यानि विभवं वयःप्रमाणं प्रव्रज्यायाश्च कारणं स्वयमेव पप्रच्छ । पृष्टश्चासाववर्णयदात्मानम् । अतीतस्वशौर्यरूपविभववर्णनवाचालेन तेन सुतरामरज्यत राजपुत्रः । विरहातुरहृदयस्य तच्चरितं विनोदनतामिवागात् । उपजातपरिचयश्चास्मै ताम्बूलमदापयत् ॥

अस्तमुपगते च भगवति सप्तसतौ, क्षितितललुठनपांसुलसटावधूननानुमितोत्साहेषु पीतोदकेषु स्नानार्द्रपृष्ठतया विगतश्रमेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहारनिवेदितं शयनीयमगात् । निषण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम् । अरतिगृहीतश्च विसर्जयांबभूव राजलोकम् । अतिवल्लभानपि नाललाप पार्श्वस्थान् । निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किंपुरुषविषयम् । अनन्यचेताः सस्मार हेमकूटस्य । निष्कारणबान्धवताम् अचिन्तयन्महाश्वेताप्रसादानाम् । जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम् । अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय । तमालिकां द्रष्टुमाचकाङ्क्ष । केयूरकागमनमुत्प्रैक्षत । हिमगृहकमपश्यत् । उष्णमायतं पुनरुक्तं निशश्वास । बबन्ध चाधिकां प्रीति शेषहारे । पश्चात्स्थितां पुण्यभागिनीममन्यत पत्रलेखाम् । एवं चानुपजातनिद्र एव तामनयन्निशाम् । उपसि चोत्थाय, तस्य जरद्द्रविडधार्मिकस्येच्छया निसृष्टैर्धनविसरैः पूरयित्वा मनोरथमभिमतम्, अभिरमणीयेषु प्रदेशेषु निवसन्, अल्पैरेवाहोभिः उज्जयिनीमाजगाम ॥

आकस्मिकागमनप्रहृष्टसंभ्रान्तानां पौराणां नमस्काराञ्जलिसहस्राणि प्रतीच्छन्, अतर्कित एव विवेश नगरीम् । अहमहमिकया च प्रधावितादतिरभसहर्षरसविह्वलात्परिजनात् ‘ द्वारि देव, चन्द्रापीडो वर्तते ’ इत्युपलभ्य, अस्य पिता प्रहर्शनेत्रजलबिन्दुवर्षी, प्रत्यासन्नवर्तिभिः प्रतिपन्नासिवेत्रच्छत्रकेतुचामरैरनुगम्यमानो राजसहस्रैः, चरणाभ्यामेव प्रत्युज्जगाम । दृष्ट्वा च पितरम्, दूरादेवावतीर्य वाजिनः, चूडामणिमरीचिमालिना मौलिना महीमगच्छत् । अथ प्रसारितभुजेन ‘ एह्येहि ’ इत्याहूय पित्रा सुचिरं गाढमुपगूढः, तत्कालसन्निहितानां च माननीयानां कृतनमस्कारः करे गृहीत्वा विलासवतीभवनमनीयत राज्ञा । तयापि तथैव सर्वान्तःपुरपरिवारया प्रत्युद्गम्याभिनन्दितागमनः, कृतागमनमङ्गलाचारः, दिग्विजयसंबद्धाभिरेव कथाभिः कञ्चित्कालं स्थित्वा शुकनासं द्रष्टुम् आययौ । तत्राप्यमुनैव क्रमेण सुचिरं स्थित्वा, निवेद्य वैशम्पायनं स्कन्धावारवर्तिनं कुशलिनम्, आलोक्य च मनोरमाम्, आगत्य विलासवतीभवन एव सर्वाः स्नानादिकाः परवश एव क्रिया निरवर्तयत् । अपराह्णे निजमेव भवनमयासीत् । तत्र च रणरणकखिद्यमानमानसः, कादम्बर्या विना न केवलमात्मानं स्वभवनमवन्तिनगरं सकलमेव महीमण्डलं शून्यम् अमन्यत । ततो गन्धर्वराजपुत्रीवार्ताश्रवणोत्सुकश्च महोत्सवमिवेप्सितवरप्राप्तिकालमिव पत्रलेखागमनं प्रत्यपालयत् ॥

ततः कतिपयदिवसापगमे मेघनादः पत्रलेखामादायागच्छत् । उपानयच्चैनाम् । कृतनमस्कारां च दूरादेव स्मितेन प्रकाशितप्रीतिश्चन्द्रापीडः, प्रकृतिवल्लभामपि कादम्बरीसकाशात् प्रसादलब्धापरसौभाग्यामिव वल्लभतरताम् उपागताम् उत्थायातिशयदर्शितादरम् आलिलिङ्ग पत्रलेखाम् । मेघनादं च प्रणतं पृष्ठे करकिसलयेन पस्पर्श । समुपविष्टश्चाब्रवीत् — ‘ पत्रलेखे, कथय — तत्रभवत्या महाश्वेतायाः संमदलेखाया देव्याः कादम्बर्याश्च कुशलम् ? कुशली वा सकलस्तमालिकाकेयूरकादिः परिजनः?’ इति । साब्रवीत् — ‘ देव, यथाज्ञापयसि, भद्रम् । त्वामर्चयति शेखरीकृताञ्जलिना ससखीजना सपरिजना देवी कादम्बरी ’ इत्येवमुक्तवतीं पत्रलेखामादाय, मन्दिराभ्यन्तरं विसर्जितराजलोको विवेश । तत्र चोत्ताम्यता मनसा धारयितुमपारयन् कुतूहलमतिप्रीत्या, दूरमुत्सारितपरिजनः प्रविश्य, कस्यचित् पत्रमण्डपस्य तले चरणारविन्देन समुत्सार्य सुखप्रसुप्तं हंसमिथुनमुपविश्याप्राक्षीत् — ‘ पत्रलेखे, कथय — कथमसि स्थिता ? कियन्ति वा दिनानि ? कीदृशो वा देवीप्रसादः ? का वा गोष्ठ्यः समभवन् ? कीदृश्यो वा कथाः समजायन्त ? को वातिशयेनास्मान्स्मरति ? कस्य वा गरीयसी प्रीतिः ? ’ इत्येवं पृष्टा च व्यजिज्ञपत् — ‘ देव,दत्तावधानेन श्रूयताम् — ततः खल्वागते देवे, केयूरकेण सह प्रतिनिवृत्याहं तथैव कुसुमशयनीयसमीपे समुपाविशम् । अतिष्ठं च सुखं नवनवाननुभवन्ती देवीप्रसादान् । किं बहुना । प्रायेण मम चक्षुषि चक्षुः, वपुषि वपुः, करे करपल्लवः, नामाक्षरेषु वाणी, प्रीतौ हृदयम्, देव्याः सकलमेव तं दिवसमभवत् । अपराह्णे च मामेवावलम्ब्य, निष्क्रम्य हिमगृहकात्, सञ्चरन्ती यदृच्छया निषिद्धपरिजना वल्लभबालोद्यानं जगाम । तत्र सुधाधवलां मरकतसोपानमालया प्रमदवनवेदिकाम् अध्यारोहत् । तस्यां च मणिस्थूणावष्टम्भा स्थिता । स्थित्वा च मुहूर्तमिव हृदयेन

सह दीर्घकालमवधार्य, किमपि व्याहर्तुमिच्छन्ती, निश्चलधृततारकेण निस्पन्दपक्ष्मणा चक्षुषा मुखं मे सुचिरं व्यलोकयत् ॥

Showing 251 to 260 of 268 verses