पञ्चतन्त्रम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

पञ्चतन्त्रम्

Enable Parallel


Showing 11 to 20 of 2815 verses
तत्रैकः प्रोवाच-देव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्व्-आदीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।

अथ तन्-मध्यतः सुमतिर्नाम सचिवः प्राह-अशाश्वतोऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत्सङ्क्षेप-मात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः—

Verse 6
अनन्तपारं किल शब्द-शास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥

तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश्छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान्करिष्यति इति ।

स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-भो भगवन्मद्-अनुग्रहार्थमेतानर्थ-शास्त्रं प्रति द्राग्यथानन्य-सदृशान्विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि ।

अथ विष्णु-शर्मा तं राजानमाह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनरेतांस्तव पुत्रान्मास-षट्केन यदि नीति-शास्त्रज्ञान्न करोमि ततः स्व-नाम-त्यागं करोमि ।

अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा स-सचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान्कुमारान्समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तद्-अर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना—

Verse 7
अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥
Metre: अनुष्टुप्

वर्धमान-वृत्तान्तः

अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः—

Showing 11 to 20 of 2815 verses