तत्रैकः प्रोवाच-देव द्वादशभिर्वर्षैर्व्याकरणं श्रूयते । ततो धर्म-शास्त्राणि मन्व्-आदीनि अर्थ-शास्त्राणि चाणक्यादीनि काम-शास्त्राणि वात्स्यायनादीनि । एवं च ततो दर्मार्थ-काम-शास्त्राणि ज्ञायन्ते । ततः प्रतिबोधनं भवति ।
अथ तन्-मध्यतः सुमतिर्नाम सचिवः प्राह-अशाश्वतोऽयं जीवितव्य-विषयः । प्रभूत-काल-ज्ञेयानि शब्द-शास्त्राणि । तत्सङ्क्षेप-मात्रं शास्त्रं किञ्चिदेतेषां प्रबोधनार्थं चिन्त्यतामिति । उक्तं च यतः—
अनन्तपारं किल शब्द-शास्त्रं स्वल्पं तथायुर्बहवश्च विघ्नाः । सारं ततो ग्राह्यमपास्य फल्गु हंसैर्यथा क्षीरमिवाम्बुध्यात् ॥
तदत्रास्ति विष्णुशर्मा नाम ब्राह्मणः सकल-शास्त्र-पारङ्गमश्छात्र-संसदि लब्ध-कीर्तिः । तस्मै समर्पयतु एतान् । स नूनं द्राक्प्रबुद्धान्करिष्यति इति ।
स राजा तदाकर्ण्य विष्णुशर्माणमाहूय प्रोवाच-भो भगवन्मद्-अनुग्रहार्थमेतानर्थ-शास्त्रं प्रति द्राग्यथानन्य-सदृशान्विदधासि तथा कुरु । तदाहं त्वां शासन-शतेन योजयिष्यामि ।
अथ विष्णु-शर्मा तं राजानमाह-देव श्रूयतां मे तथ्य-वचनम् । नाहं विद्या-विक्रयं शासन-शतेनापि करोमि । पुनरेतांस्तव पुत्रान्मास-षट्केन यदि नीति-शास्त्रज्ञान्न करोमि ततः स्व-नाम-त्यागं करोमि ।
अथासौ राजा तां ब्राह्मणस्यासम्भाव्यां प्रतिज्ञां श्रुत्वा स-सचिवः प्रहृष्टो विस्मयान्वितस्तस्मै सादरं तान्कुमारान्समर्प्य परां निर्वृतिमाजगाम । विष्णुशर्मणापि तानादाय तद्-अर्थं मित्र-भेद-मित्र-प्राप्ति-काकोलूकीय-लब्ध-प्रणाश-अपरीक्षित-कारकाणि चेति पञ्च-तन्त्राणि रचयित्वा पाठितास्ते राजपुत्राः । तेऽपि तान्यधीत्य मास-षट्केन यथोक्ताः संवृत्ताः । ततः प्रभृत्येतत्पञ्चतन्त्रकं नाम नीति-शास्त्रं बालावबोधनार्थं भूतले प्रवृत्तम् । किं बहुना—
अधीते य इदं नित्यं नीति-शास्त्रं शृणोति च । न पराभवमाप्नोति शक्रादपि कदाचन ॥
Metre: अनुष्टुप्
अथातः प्रारभ्यते मित्र-भेदो नाम प्रथमं तन्त्रम् । यस्यायमादिमः श्लोकः—