रघुवंशम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

रघुवंशम्

Enable Parallel


Showing 1531 to 1540 of 1569 verses
Verse 19
लौल्यमेत्य गृहिणीपरिग्रहान्नर्तकीषअवसुलभासु तद्वपुः । वर्तते स्म स कथंचिदालिखन्नङ्गुलीक्षरणसन्नवर्तिकः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): लौल्यमिति॥ गृहिणीपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभासु सतीषु लौल्यमौत्सुक्यमेत्य प्राप्य। अङ्गुल्योः क्षरणेन स्वेदनेन सन्नवार्तिको विगलितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन् कथंचिद्वर्तते स्मावर्त ॥

Verse 20
प्रेमगर्वितविपक्षमत्सरादायताञ्च मदनान्महीक्षितम् । निन्युरुत्सवविधिञ्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रेमेति॥ प्रेम्णा स्वविषयेण प्रियस्यानुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्वैरादायतात्प्रवृद्धान्मदनाञ्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरोषाः अत्यस्तं महीक्षितम्। उत्सवविधिच्छलेन महोत्सवकर्मव्याजेन। कृतोऽर्थः प्रयोजनं येन स कृतार्थः, तस्य भावं कृतार्थतां निन्युः। मदनमहोत्सवव्याजानीतेन तेन अमनोरथं कारयामासुरित्यर्थथः ॥

Verse 21
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः । प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): प्रातरिति॥ सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना। दृशेर्ण्यन्ताल्ल्युट्। कृता खण्डनव्यथा यासां तास्तथोक्ताः खण्डिता इत्यर्थः। तदुक्तम्-`ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता` इति। प्रणयिनीः प्राञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः। तत्र शिथिलप्रयत्नः सन्नित्यर्थः। पुनरदुनोत् पर्यतापयत् ॥

Verse 22
स्पप्नकीर्तितविपक्षमङ्गनाः प्रत्यभैत्सुरवदन्त्य एव तम् । प्रच्छदान्तगलिताश्रुबिन्दुभिः क्रोधभिन्नवलयैर्विवर्तनैः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स्वप्नेति॥ स्वप्ने कीर्तितो विपक्षः सपत्नजनो येन तं। तमग्निवर्णम्। अवदन्त्य एव। त्वया गोत्रस्खलनं कृतमित्यनुपालम्भमाना एव। प्रच्छदस्यास्तरणपटस्यान्ते अध्ये गलिता अश्रुबिन्दवो येषु तैः क्रोधेन भिन्नानि भग्नानि वलयानि येषु तैर्विवर्तनैः पराग्विलुण्ठनैः प्रत्यभैत्सुः प्रतिचक्रुः। तिरश्चक्रुरित्यर्थः ॥

Verse 23
क्लृप्तपुष्पशयनाँल्लतागृहानेत्य दूतिकृतमार्गदर्शनः । अन्वभूत्परिजनाङ्गनारतं सोऽवरोधभयवेपथूत्तरम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): क्लृप्तेति॥ सोऽग्निवर्णो दूतिभिः कृतमार्गदर्शनः सन्। क्लृप्तपुष्पशयनाँल्लतागृहानेत्य। अवरोधादन्तःपुरजनाद्भयेन यो वेपथुः कम्पस्तदुत्तरं तप्रधानं यथा तथा परिजनाङ्गनारतं दासीरतमन्वभूत्। परिजनश्चासावङ्गना चेति विग्रहः। अत्र छीबन्तस्यापि `दूती` शब्दस्य छन्दोभङ्गभयाद्ध्रस्वत्वं कृतम्। `अपि माषं मषं कुर्याच्छन्दोभङ्गं त्यजेद्गिराम्` इत्युपदेशात् ॥

Verse 24
नाम वल्लभजनस्य ते मया प्राप्य भाग्यमपि तस्य काङ्क्ष्यते । लोलुपं ननु मनो ममेति तं गोत्रविस्खलितमूचुरङ्गनाः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): नामेति॥ मया ते वल्लभजनस्य प्रियजनस्य नाम प्राप्य तन्नाम्नाह्वानं लब्ध्वा तस्य त्वद्वल्लभजनस्य यद्भाग्यम्। तत्परिहासकारणमिति शेषः। तदपि काङ्क्ष्यते। ननु बत मम मनो लोलुपं गृध्रु। इत्यनेन प्रकारेण गोत्रे नाम्नि विस्खलितं स्खलितवन्तं तमग्निवर्णमूचुः। `गोत्रं नाम्नि कुलेऽचले` इति यादवः। तन्नामलाभे सति तद्भाग्यमपि काङ्क्ष्यते मनः। अहो तृष्णेति सोल्लुण्ठमुपालम्भन्तेत्यर्थः ॥

Verse 25
चूर्णबभ्रु लुलितस्नगाकुलं छिन्नमेखलमलक्तकाङ्कितम् । उत्थितस्य शयनं विलासिनस्तस्य विभ्रमरतान्यपावृणोत् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): चूर्णेति॥ चूर्णैर्बभ्रु चूर्णैर्व्यानतकरणैरधोमुखव्स्थितायाः स्त्रियाशअचिकुरगलितैः कुङ्कुमादिभिर्बभ्रु पिङ्गलम्। `बभ्रु स्यात्पिङ्गले त्रिषु` इत्यमरः। लुलितस्नगाकुलं वरिपदाख्यबन्धे स्त्रिया भूमिगतमस्तकतया पतिताभिर्लुलितस्रग्भिराकुलम्। छिन्नमेखलं हरिविक्रमकरणैः स्त्रिया उच्छ्रितैकचरणत्वाच्छिन्नमेखलम्, गलितमेखलमित्यर्थः। अलक्तकाङ्कितं धेनुकबन्धे भूतलनिहितकान्ताचरणत्वाल्लक्षारागखषितं शयनं कर्तृ। उत्थितस्य । शयनादिति भावः। विलासिनस्तस्याग्निवर्णस्य विभ्रमरतानि लीलारतानि। सुरतबन्धविशेषानित्यर्थः। अपावृणोत् स्फुटीचकार। व्यानतादीनां लक्षणं रतिरहस्ये-`व्यानतं रतमिदं प्रिया यदि स्यादधोमुखचतुष्पदाकृतिः। तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितस्थितिः। भूगतस्तनभुजास्यमस्तकामुन्नतस्फिञ्चमधोमुखीं स्त्रियम्। क्रामति स्वकरकृष्टमेहने वल्लभे वरिपदं तदुच्यते। योषिदेकचरणे समुत्विते जायते हि हरिविक्रमाह्वयः। न्यस्तद्दस्तयुगला निजे पदे योषिदेति कटिरूढवल्लभा। अग्रतो यदि शनैरधोमुखी धैनुकं वृषवदुन्नते प्रिये ॥` इति ॥

Verse 26
स स्वयं चरणरागमादधे योषितां न च तथा समाहितः । लोभ्यमाननयनः श्लथांशुकैर्मेखलागुणपदैर्नितम्बिभिः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): स इति॥ सोऽग्निवर्णः स्वयमेव योषितां चरणयो रागं लाक्षारसमादधेऽर्पयामास। किं च, श्लथांशुकैः। प्रियाङ्गस्पर्शादिति भावः। नितम्बिभिर्नितम्बवद्भिर्मेखलागुणपदैर्जघनैः। `पश्चान्नितम्बः स्त्रीकठ्याः क्लीबे तु जघनं पुरः` इत्यमरः। लोभ्यमाननयन आकृष्यमाणदृष्टिः सन्। तथा समाहितोऽवहितो नादधे यथासम्यग्रागरचना स्यदिति भावः ॥

Verse 27
चुम्बने विपरिवर्तिताधरं हस्तरोधि रशनाविघट्टने । विघ्नितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): चुम्बन इति॥ चुम्बने प्रवृत्ते सति विपरिवर्तिताधरं परिहृतोष्ठम्। रशनाया विघट्टने ग्रन्थिविस्रंसने प्रसक्ते सति हस्तं रुणद्धिवारयतीति हस्तरोधि। इत्थं सर्वतः सर्वत्र विघ्नितेच्छं प्रतिहतमनोरथमपि वधूनां रतं सुरतं तस्याग्निवर्णस्य मन्मथेन्धनं कामोद्दीपनमभूत् ॥

Verse 28
दर्पणेषु परिभोगदर्शिनीर्नर्मपूर्वमनुपृष्ठसंस्थितः । छायया स्मितमनोज्ञया वधूर्ह्नीनिमीलितमुखीश्चकार सः ॥
Metre: रथोद्धता
सञ्जीविनीटीका (मल्लिनाथः): दर्पणेष्विति॥ सोऽग्निवर्णो दर्पणेषु परिभोगदर्शिनीः संभोगचिह्नानि पश्यन्तीर्वधूर्नर्मपूर्व परिहासपूर्वम्। अनुपृष्ठं तासां पृष्ठभागे संस्थितः सन्। स्मितेन मनोज्ञया छायया दर्पणगतेन स्वप्रतिबिम्बेन ह्नीनिमीलितमुखीर्लज्जावनतमुखीश्चकार। तमागतं दृष्ट्वा लज्जिता इत्यर्थः ॥