स्थानेष्वेव नियोक्तव्या भृत्या आभरणानि च । न हि चूडामणिः पादे प्रभवामीति बध्यते ॥
Metre: अनुष्टुप्
अनभिज्ञो गुणानां यो न भृत्यैरनुगम्यते । धनाढ्योऽपि कुलीनोऽपि क्रमायातोऽपि भूपतिः ॥
Metre: अनुष्टुप्
असमैः समीयमानः समैश्च परिहीयमाण-सत्-कारः । धुरि यो न युज्यमानस्त्रिभिर् अर्थ-पतिं त्यजति भृत्यः ॥
Metre: आर्या (१२, १८, १२, १५)
यच्चाविवेकितया राज्ञा भृत्यानुत्तम-पद-योग्यान्हीनाधम-स्थाने नियोजयति, न ते तत्रैव स भूपतेर्दोषो न तेषाम् । उक्तं च—
कनक-भूषण-सङ्ग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि स शोभते भवति योजयितुर्वचनीयता ॥
Metre: द्रुतविलम्बितम्
यच्च स्वाम्येवं वदति चिराद्दृश्यते । तदपि श्रूयताम्—
सव्य-दक्षिणयोर्यत्र विशेषो नास्ति हस्तयोः । कस्तत्र क्षणमप्यार्यो विद्यमान-गतिर्भवेत् ॥
Metre: अनुष्टुप्
काचे मणिर्मणौ काचो येषां बुद्धिर्विकल्पते । न तेषां सन्निधौ भृत्यो नाम-मात्रोऽपि तिष्ठति ॥
Metre: अनुष्टुप्