शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1381 to 1390 of 1644 verses
Verse 16
वीर्योत्साहश्लाघि कृत्वावदानं सङ्ग्रामाग्रे मानिनां लज्जितानाम् । अज्ञातानां शत्रुभिर्युक्तमुच्चैः श्रीमन्नाम श्रावयन्ति स्म नग्नाः ॥
Metre: शालिनी

Verse 17
आधावन्तः सम्मुखं धारितानामन्यैरन्ये तीक्ष्णकौक्षेयकाणाम् । वक्षःपीठैरात्सरोरात्मनैव क्रोधेनान्धाः प्रविशन्पुष्कराणि ॥
Metre: उपजातिः

Verse 18
मिश्रीभूते तत्र सैन्यद्वयेऽपि प्रायेणायं व्यक्तमासीद्विशेषः । आत्मीयास्ते ये पराञ्चः पुरस्तादभ्यावर्ती संमुखो यः परोऽसौ ॥
Metre: शालिनी

Verse 19
सद्वंशत्वादङ्गसंसङ्गिनीत्वं नीत्वा कामं गौरवेणाबबब्द्धा । नीता हस्तं वञ्चयित्वा परेण द्रोहं चक्रे कस्यचित्स्वा कृपाणी ॥
Metre: शालिनी

Verse 20
नीते भेदं धौतधाराभिघातादम्भोदाभे शात्रवेणापरस्य । सासृग्राजिस्तीक्ष्णमार्गस्य मार्गो विद्युद्दीप्तः कङ्कटे लक्ष्यते स्म ॥
Metre: शालिनी

Verse 21
आमूलान्तात्सायकेनायतेन स्यूते बाहौ मण्डुकश्लिष्टमुष्टेः । प्रप्यासह्यां वेदनामस्तधैर्यादप्यभ्रश्यच्चर्म नान्यस्य पाणेः ॥
Metre: शालिनी

Verse 22
भित्वा घोणामायसेनाधिवक्षः स्थूरीपृष्ठो गार्ध्रपक्षेण विद्धः । शिक्षाहेतोर्गाढरज्ज्वेव बद्धो हर्तुं वक्त्रं नाशकद्दुर्मुखोऽपि ॥
Metre: शालिनी

Verse 23
कुन्तेनोच्चैः सादिना हन्तुमिष्टान्नाजानेयो दन्तिनस्त्रस्यति स्म । कर्मोदारं कीर्तये कर्तुकामान्किंवा जात्याः स्वामिनोह्रेपयन्ति ॥
Metre: शालिनी

Verse 24
जेतुं जैत्राः शेकिरे नारिसैन्यैः पश्यन्तोऽधो लोकमस्तेषुजालाः । नागारूढाः पार्वतानि श्रयन्तो दुर्गाणीव त्रासहीनास्त्रसानि ॥
Metre: शालिनी

Verse 25
विष्वद्रीचीर्विक्षपन्सैन्यवीचीराजावन्तः क्वापि दूरं प्रयातम् । बभ्रामैकोबन्धुमिष्टं दिदृक्षुः सिन्धौ वाद्यो मण्डलं गोर्वराहः ॥
Metre: शालिनी

Showing 1381 to 1390 of 1644 verses