शिशुपालवधम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

शिशुपालवधम्

Enable Parallel


Showing 1341 to 1350 of 1644 verses
Verse 45
क्षणेन च प्रतिमुखतिग्मदीधितिप्रतिप्रभास्फुरदसिदुःखदर्शना । भयङ्करा भृशमपि दर्शनीयतां ययावसावसुरचमूश्च भूभृताम् ॥
Metre: रुचिरा

Verse 46
पयोमुचामभिपततां दिवि द्रुतं विपर्ययः परित इवातपस्य सः । समक्रमः समविषमेष्वथ क्षणात्क्षमातलं बलजलराशिरानशे ॥
Metre: रुचिरा

Verse 47
ममौ पुरः क्षणमिव पश्यतो महत्तनूदरस्थितभुवनत्रयस्य तत् । विशालतां दधति नितान्तमायते बलं द्विषां मधुमथनस्य चक्षुषि ॥
Metre: रुचिरा

Verse 48
भृशस्विदः पुलकविकासिमूर्तयो रसाधिके मनसि निविष्टसाहसाः । मुखे युधः सपदि रतेरिवाभवन्ससम्भ्रमाः क्षितिपचमूवधूगणाः ॥
Metre: रुचिरा

Verse 49
ध्वजांशुकैर्ध्रुवमनुकूलमारुतप्रसारितैः प्रसभकृतोपहूतयः । यदूनभि द्रुततरमुद्यतायुधाः क्रुधा परं रयमरयः प्रपेदिरे ॥
Metre: रुचिरा

Verse 50
हरेरपि प्रति परकीयवाहिनीरधिस्यदं प्रववृतिरे चमूचराः । विलम्बितुं न खलु सहा मनस्विनो विधित्सतः कलहमवेक्ष्य विद्विषः ॥
Metre: रुचिरा

Verse 51
उपाहितैर्वपुषि निवातवर्मभिः स्फुरन्मणिप्रसृतमरीचिसूचिभिः । निरन्तरं नरपतयो रणाजिरे रराजिरे शरनिकराचिता इव ॥
Metre: रुचिरा

Verse 52
अथोच्चकैर्जरठकपोतकन्धरातनूरुहप्रकरविपाण्डुरद्युति । वलैश्चलच्चरणविधूतमुच्चरद्धनावलीरुदचरत क्षमारजः ॥
Metre: रुचिरा

Verse 53
विषङ्गिभिर्भृशमितरेतरं क्वचित्तुरङ्गमैरुपरि निरुद्धनिर्गमाः । चलाचलैरनुपदमाहताः खुरैर्विबभ्रमुश्चिरमध एव धूलयः ॥
Metre: रुचिरा

Verse 54
गरीयसः प्रचुरमुखस्य रागिणो रजोऽभवद्व्यवहितसत्वमुत्कटम् । सिसृक्षतः सरसिजजन्मनो जगद्बलस्य तु क्षयमपनेतुमिच्छतः ॥
Metre: रुचिरा

Showing 1341 to 1350 of 1644 verses