प्रकटान्यपि नैपुणं महत्परवाच्यानि चिराय गोपितुम् । विवरीतुमथात्मनो गुणान्भृशमाकौशलमार्यचेतसाम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
किमिवाखिललोककीर्तितं कथयत्यात्मगुणं महामनाः । वदिता न लघीयसोऽपरः स्वगुणं तेन वदत्यसौ स्वयम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
विसृजन्त्यविकत्थिनः परे विषमाशीविषवन्नराः क्रुधम् । दधतोऽन्तरसाररूपतां ध्वनिसाराः पटहा इवेतरे ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
नरकच्छिदमिच्छतीक्षितुं विधिना येन स चेदिभूपतिः । द्रुतमेतु न हापयिष्यते सदृशं तस्य विधातुमुत्तरम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
समनद्ध किमङ्ग भूपतिर्यदि संधित्सुरसौ सहामुना । हरिराक्रमणेन संनति किल विभ्रति भियेत्यसंभवः ॥
महतस्तरसा विलङ्घयन्निजदोषेण कुधीर्विनश्यति । कुरुते न खलु स्वयेच्छया शलभानिन्धनमिद्धदीधितिः ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
यदपूरि पुरा महीपतिर्न मुखेन स्वयमगसा शतम् । अथ संप्रति पर्यपूपुरत्तदसौ दूतमुखेन शार्ङ्गिणः ॥
Metre: गीति (१२, १८, १२, १८)
यदनर्गलगोपुराननस्त्वमितो वक्ष्यसि किञ्चिदप्रियम् । विवरिष्यति तच्चिरस्य नः समयोद्वीक्षणरक्षितां क्रुधम् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४
निशम्य तदूर्जितं शिनेर्वचनं नप्तुरनाप्तुरेनसाम् । पुनरुज्झितसाध्वसो द्विषामभिधत्ते स्म वचो वचोहरः ॥
Metre: गीति (१२, १८, १२, १८)
विविनक्ति न बुद्धिदुर्विधः स्वयमेव स्वहितं पृथग्जनः । यदुदीरितमप्यदः परैर्न विजानाति तदद्भुतं महत् ॥
Metre: वियोगिनी = [१०: ससजग] १,३ + [११: सभरलग] २,४