श्रुत्वा तस्य शुचो हेतुं गोप्ता जिह्नाय राघवः । न ह्यकालभवो मृत्युरिक्ष्वाकुपदमस्पृशत् ॥
Metre: अनुष्टुप्
स मुहूर्तं क्षमस्वेति द्विजमाश्वास्य दुःखितम् । यानं सस्मार कौबेरं वैवस्वतजिगीषया ॥
Metre: अनुष्टुप्
आत्तशस्त्रस्तदध्यास्य प्रस्थितः स रघूद्वहः । उञ्चचार पुरस्तस्य गूढरूपा सरस्वती ॥
Metre: अनुष्टुप्
राजन्! प्रजासु ते कश्चिदपचारः प्रवर्तते । तमस्विष्य प्रशमयेर्भवितासि ततः कृती ॥
Metre: अनुष्टुप्
इत्याप्तवचनाद्रामो विनेष्यन्वर्णविक्रियाम् । दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥
Metre: अनुष्टुप्
अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् । ददर्श कंचिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥
Metre: अनुष्टुप्
पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः । आत्मानं शम्बुकं नाम शूद्रं सुपरदार्थिनम् ॥
Metre: अनुष्टुप्
तपस्यनधइकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥
Metre: अनुष्टुप्
स तद्वक्त्रं हिममक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥
Metre: अनुष्टुप्
कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥
Metre: अनुष्टुप्