अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Disable Parallel


Showing 1151 to 1160 of 1285 verses
कुत्र । देह्येतत् । (इति हस्तं प्रसारयति)

कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य ।

प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥
Metre: वंशस्थम्

सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य ऋषिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।

तथा । (इति निष्क्रान्ता)

अनेनैव तावत्क्रीडिष्यामि ।

स्पृहयामि खलु दुर्ललितायास्मै ।

आलक्ष्यदन्तमुकुलाननिमित्तहासैर् अव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥
Metre: वसन्ततिलका

भवतु । न मामयं गणयति । (पार्श्वमवलोक्य) कोऽत्र ऋषिपुमाराणाम् । (राजानमवलोक्य) भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण* डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् । (*दुर्मोक)

(उपगम्य । सस्मितम्)अयि भो महर्षिपुत्र ।

Showing 1151 to 1160 of 1285 verses