अभिज्ञानशाकुन्तलम् - Sahitya | Sahitya | Rikamrit
Home All Resources
Vidyakendra
Vidyakendra Home
Back to Sahitya

Texts

raghuvamsa kumarasambhava kiratarjuniya shishupalavadha amarushataka shatakatrayam shakuntalam pancatantra kadambari shringaraprakasha meghaduta rtusamhara naishadhiya bhattikavya

Settings

16

Bookmarks

No bookmarks yet

अभिज्ञानशाकुन्तलम्

Enable Parallel


Showing 1141 to 1150 of 1285 verses
(कर्णं दत्त्वा)अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । (शब्दानुसारेणावलोक्य । सविस्मयम्)अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।

अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥
Metre: अनुष्टुप्

(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)

जृम्भस्व सिंह दन्तांस्ते गणयिष्ये ।

अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विकरोषि । हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।

किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।

एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न मुञ्चसि ।

(सस्मितम्)अहो बलीयः खलु भीतोऽस्मि । (इत्यधरं दर्शयति )

राजा हमतस्तेजसो बीजं बालोऽयं प्रतिभाति मे । स्फुलिङ्गावस्थया वह्निरेधापक्ष इव स्थितः ॥
Metre: अनुष्टुप्

वत्स एनं बालमृगेन्द्रं मुञ्च ।अपरं ते क्रीडनकं दास्यामि ।

Showing 1141 to 1150 of 1285 verses