षड्गुणाः शक्तयस्तिस्रः सिद्धयोदयास्त्रयः । ग्रन्धानधीत्य व्याकर्तुमिति दुर्मेधसोऽप्यलम् ॥
Metre: अनुष्टुप्
अनिर्लोडितकार्यस्य वाग्जालं वाग्मिनो वृथा । निमित्तादपराद्धेषोर्धानुष्कस्येव वल्गितम् ॥
Metre: अनुष्टुप्
सर्वकार्यशरीरेषु मुक्त्वाङ्गस्कन्दपञ्चकम् । सौगतानामिवात्मान्यो नास्ति मन्त्रो महीभृताम् ॥
Metre: अनुष्टुप्
मन्त्रो योध इवाधीरः सर्वाङ्गैः संवृतैरपि । चिरं न स्थातुं परेभ्यो भेदशङ्कया ॥
Metre: अनुष्टुप्
आत्मोदयः परज्यानिर्द्वयं नीतिरितीयति । तदूरीकृत्य कृतिभिर्वाचस्पत्यं प्रतायते ॥
Metre: अनुष्टुप्
तृप्तियोगः परेणापिमहिम्ना न महात्मनाम् । पूर्णश्चन्द्रोदयाकाङ्क्षी दृष्टानतोऽत्र महार्णवः ॥
Metre: अनुष्टुप्
संपदासुस्थिरंमन्यो भवति स्वल्पयापि यः । कृतकृत्यो विधिर्मन्ये न वर्धयन्ति तस्य ताम् ॥
Metre: अनुष्टुप्
शमूलघातमघ्नन्तः परान्नोद्यन्ति मानिनः । प्रध्वंसितान्धतमसस्तत्रोदाहरणं रविः ॥
Metre: अनुष्टुप्
विपक्षममखिलीकृत्य प्रतिष्ठा खलु दुर्लभा । अनीत्वा पङ्कतां धूलिमुदकं नावतिष्ठते ॥
Metre: अनुष्टुप्
ध्रियतेयावदेकोऽपि रिपुस्तावत्कुतः सुखम् । पुरः क्लश्नाति सोमं हि सैंहिकेयोऽसुरद्रुहाम् ॥
Metre: अनुष्टुप्