ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते । प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥
Metre: आर्या
(जनान्तिकम्) वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा ।
तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं द्धनुः ॥
Metre: अनुष्टुप्
यद्भवानाज्ञापयति (इति निष्क्रान्तः)
(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
मातले अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।