आबाधामरणभयार्चिषा चिराय प्लुष्टेभ्यो भव महता भवानलेन । निर्वाणं समुपगमेन यच्छते ते बीजानां प्रभव नमोऽस्तु जीवनाय ॥
Metre: प्रहर्षिणी
यः सर्वेषामावरीता वरीयान्सर्वैर्भावैर्नावृतोऽनादिनिष्ठः । मार्गातीतायेन्द्रियाणां नमस्तेऽविज्ञेयाय व्योमरूपाय तस्मै ॥
Metre: शालिनी
अणीयसे विश्वविधारिणे नमो नमोऽन्तिकस्थाय नमो दवीयसे । अतीत्य वाचां मनसां च गोचरं स्थिताय ते तत्पतये नमो नमः ॥
Metre: वंशस्थम्
असंविदानस्य ममेश संविदां तितिक्षितुं दुश्चरितं त्वमर्हसि । विरोध्य मोहात्पुनरभ्युपेयुषां गतिर्भवानेव दुरात्मनापि ॥
Metre: वंशस्थम्
आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं धर्मात्मजस्य विहितागसि शत्रुवर्गे । सम्प्राप्नुयां विजयमीश यया समृद्ध्या तां भूतनाथ विभुतां वितराहवेषु ॥
Metre: वसन्ततिलका
इति निगदितवन्तं सूनुमुच्चैर्मघोनः प्रणतशिरसमीशः सादरं सान्त्वयित्वा । ज्वलदनलपरीतं रौद्रमस्त्रं दधानं धनुरुपपदमस्मै वेदमभ्यादिदेश ॥
Metre: मालिनी
स पिङ्गाक्षः श्रीमान्भुवनमहनीयेन महसा तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः । परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥
Metre: शिखरिणी
अथ शशधरमौलेरभ्यनुज्ञामवाप्य त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै । अवितथफलमाशिर्वादमारोपयन्तो विजयि विविधमस्त्रं लोकपाला वितेरुः ॥
Metre: मालिनी
असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः । स्वधाम्ना लोकानां तमुपरि कृतस्थानममरास्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥
Metre: शिखरिणी
व्रज जय रिपुलोकं पादपद्मानतः सन्गदित इति शिवेन श्लाघितो देवसंघैः । निजगृहमथ गत्वा सादरं पाण्डुपुत्रो धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥
Metre: मालिनी