हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः । चक्रुः प्रयत्नेन विकीर्यमाणैर्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥
Metre: इन्द्रवज्रा
मुदितमधुलिहो वितानीकृताः स्रज उपरि वितत्य सातानिकीः । जलद इव निषेदिवांसं वृषे मरुदुपसुखयांबभूवेश्वरम् ॥
Metre: प्रमुदितवदना
कृतधृति परिवन्दितेनोच्चकैर्गणपतिभिरभिन्नरोमोद्गमैः । तपसि कृतफले फलज्यायसी स्तुतिरिति जगदे हरेः सूनुना ॥
Metre: प्रमुदितवदना
शरणं भवन्तमतिकारुणिकं भव भक्तिगम्यमधिगम्य जनाः । जितमृत्यवोऽजित भवन्ति भये ससुरासुरस्य जगतः शरणम् ॥
Metre: प्रमिताक्षरा
विपदेति तावदवसादकरी न च कामसम्पदभिकामयते । न नमन्ति चैकपुरुषं पुरुषास्तव यावदीश न नतिः क्रियते ॥
Metre: प्रमिताक्षरा
संसेवन्ते दानशीला विमुक्त्य सम्पश्यन्तो जन्मदुःखं पुमांसः । यन्निःसङ्गस्त्वं फलस्यानतेभ्यस्तत्कारुण्यं केवलं न स्वकार्यम् ॥
Metre: शालिनी
प्राप्यते यदिह दूरमगत्वा यत्फलत्यपरलोकगताय । तीर्थमस्ति न भवार्णवबाह्यं सार्वकामिकम् ऋते भवतस्तत् ॥
Metre: स्वागता
व्रजति शुचि पदं त्वति प्रीतिमान्प्रतिहतमतिरेति घोरां गतिम् । इयमनघ निमित्तशक्तिः परा तव वरद न चित्तभेदः क्वचित् ॥
Metre: प्रमुदितवदना
दक्षिणां प्रणतदक्षिण मूर्तिं तत्त्वतः शिवकरीमविदित्वा । रागिणापि विहिता तव भक्त्या संस्मृतिर्भव भवत्यभवाय ॥
Metre: स्वागता
दृष्ट्वा दृश्यान्याचरणीयानि विधाय प्रेक्षाकारी याति पदं मुक्तमपायैः । सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां यश्चोपास्ति साधु विधेयं स विधत्ते ॥
Metre: मत्तमयूरम्