तन्वङ्ग्या गुरुसन्निधौ नयनजं यद्वारि संस्तम्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तोऽनुषङ्गोद्भवः । मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासामोदसमाकुलालिनिकरव्याजेन धूमावलिः ॥
Metre: शार्दूलविक्रीडितम्
भ्रूभेदो रचितः चिरं नयनयोरभ्यस्तमामीलनं रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः । धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवस्थिता ॥
Metre: शार्दूलविक्रीडितम्
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननैर्यत्नेनापि न याति लोचनपथं कान्तेति जानन्नपि । उद्ग्रीवश्चरणार्धरुद्धवसुधः कृत्वाश्रुपूर्णां दृशं तामाशां पथिकस्तथापि किमपि ध्यायंश्चिरं वीक्षते ॥
Metre: शार्दूलविक्रीडितम्
म्लानं पाण्डु कृशं वियोगविधुरं लम्बालकं सालसं भूयस्तत्क्षणजातकान्ति रभसप्राप्ते मयि प्रोषिते । साटोपं रतिकेलिकालसरसं रम्यं किमप्यादराद्यत्पीतं सुतनोर्मया वदनकं वक्तुं न तत्पार्यते ॥
Metre: शार्दूलविक्रीडितम्
सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुराव् एषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः । इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं सम्भ्रमात्पुम्भावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥
Metre: शार्दूलविक्रीडितम्
करकिसलयं धूत्वा धूत्वा विमार्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति । स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला सुरतविरता रम्या तन्वी मुहुर्मुहुरीक्षते ॥
Metre: हरिणी
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते । आत्मद्रोहिणि दुर्जनैः प्रलपितं कर्णेऽनिशं मा कृथाश्छिन्नस्नेहरसा भवन्ति पुरुषा दुःखानुवर्त्याः पुनः ॥
Metre: शार्दूलविक्रीडितम्
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमुन्मथ्यते निद्रा नेति न दृश्यते प्रियमुखं रात्रिंदिवं रुद्यते । अङ्गं शोषमुपैति पादपतितः प्रेयांस्तथोपेक्षितः सख्यः कं गुणम् आकलय्य दयिते मानं वयं कारिताः ॥
Metre: शार्दूलविक्रीडितम्
अद्यारभ्य यदि प्रिये पुनरहं मानस्य वान्यस्य वा गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः । तत्तेनैव विना शशाङ्कधवलाः स्पष्टाट्टहासा निशा एको वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥
Metre: शार्दूलविक्रीडितम्
इदं कृष्णं कृष्णं प्रियतम तनु श्वेतमथ किं गमिष्यामो यामो भवतु गमनेनाथ भवतु । पुरा येनावं मे चिरमनुसृता चित्तपदवी स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥
Metre: शिखरिणी